भूमिका श्रेष्ठा भवेत् नेपालस्य प्रथमा महिलाट्रांसजेंडरसांसदः
काठमांडूः, 17 मार्चमासः (हि.स.)। नेपालदेशस्य प्रथमाया: ट्रान्सजेंडर-संसदसदस्या: रूपेण भूमिका श्रेष्ठा निर्वाचिता अस्ति। ताम् राष्ट्रियेन स्वतन्त्रपक्षेण दलनेन समानुपातिक-सूच्याः माध्यमेन चयनिता। निर्वाचन-आयोगेन सोमवासरे सायंकाले या सूची प्रकाशित
भूमिका श्रेष्ठ


काठमांडूः, 17 मार्चमासः (हि.स.)।

नेपालदेशस्य प्रथमाया: ट्रान्सजेंडर-संसदसदस्या: रूपेण भूमिका श्रेष्ठा निर्वाचिता अस्ति। ताम् राष्ट्रियेन स्वतन्त्रपक्षेण दलनेन समानुपातिक-सूच्याः माध्यमेन चयनिता। निर्वाचन-आयोगेन सोमवासरे सायंकाले या सूची प्रकाशिताभूत्, तस्यां तस्याः नाम अपि आसीत्।

पूर्वं 2008 संवत्सरे यदा नेपालदेशे प्रथमः संविधानसभानिर्वाचनः अभवत्, तदा सुनिल बाबु पंत एशियादेशस्य प्रथमः समलैंगिक-सांसदः इति रूपेण निर्वाचितः आसीत्। किन्तु संसदायां ट्रान्सजेंडर-महिलारूपेण भूमिका प्रथमासांसद् अभवत्।

भूमिका स्वयमेव ट्रान्सजेंडर-महिला अस्ति। जन्मकाले सा पुरुषरूपेण आसीत्, तस्याः नाम ‘कैलाश’ आसीत्। अनन्तरं स्वभावानुसारं स्वं रूपं नाम च परिवर्त्य ‘भूमिका’ अभवत्। भूमिका श्रेष्ठाया: जन्म 1987 संवत्सरे काठमांडूनगरस्य नैकापप्रदेशे अभवत्। परिवारे, विद्यालये, समाजे च भेदभाव-अपमानयोः कारणेन सा नवमकक्षातः परं अध्ययनं त्यक्तवती।

2005 संवत्सरे सा काठमांडू-जिल्ला-प्रशासनकार्यालयात् ‘कैलाश श्रेष्ठ’ नाम्ना नागरिकतापत्रं प्राप्तवती, यस्मिन् तस्याः लिङ्गं ‘अन्य’ इति निर्दिष्टम् आसीत्। नेपालदेशे तृतीयलिङ्गस्य कानूनीमान्यतां प्राप्ते अनन्तरं नागरिकतायां ‘अन्य’ लिङ्गस्य व्यवस्था आरब्धा।

अनन्तरं स्त्री-परिचयस्य मान्यतार्थं सा नागरिकतासंशोधनाय प्रयत्नं कृतवती। लिङ्गपरिवर्तनप्रमाणेन सह आवेदनं दत्तवती। ततः 5 अप्रैल 2021 दिने मन्त्रिपरिषदः निर्णयेन तस्याः नागरिकता संशोधिताभूत्, ‘भूमिका श्रेष्ठ’ नाम तथा ‘महिला’ लिङ्गं च स्थापितम्। एतत् नेपालदेशे ट्रान्सजेंडर-पहिचानस्य कानूनी-मान्यतायाः दृष्ट्या महत्वपूर्णं पदम् इति मन्यते।

भूमिका दीर्घकालात् ब्लू डायमंड सोसाइटी इत्यस्य संस्थायाः सह सम्बद्धा सती लैंगिक-यौनिक-अल्पसंख्यक-समुदायस्य अधिकारार्थं कार्यं कुर्वती आसीत्। अस्यां संस्थायां कार्यं कुर्वन्ती सा स्वीयां पहिचानं स्पष्टतया स्वीकृतवती। तस्याः सक्रियतायाः कारणेन अन्तरराष्ट्रीयसंस्थया लैंगिक-समानताक्षेत्रे विश्वस्य शीर्ष-100 युवा-सूच्यां तस्याः नाम समाविष्टम्।

सा स्वजीवनानुभवानां आधारेण ‘भूमिका: तेस्रो लिंगीको आत्मकथा’ इति नेपालीभाषायां पुस्तकं अपि प्रकाशितवती, यस्मिन् पहिचान-संघर्ष-सामाजिकस्वीकारस्य कथा निरूपिता अस्ति।

अधुना नीति-निर्माण-स्तरं प्राप्तवती भूमिका लैंगिक-यौनिक-अल्पसंख्यक-समुदायस्य विषयान् संस्थागतरीत्या उत्थापयितुं संकल्पिता अस्ति। तस्याः मते नेपालस्य संविधानस्य धारा 12, 18, 42 च एतेषां समुदायानां अधिकारान् मान्यता ददाति, किन्तु तेषां पूर्णकार्यान्वयनं न जातम्। तस्याः प्राथमिकता एतेषां अधिकाराणां व्यवहारिक-प्रयोगार्थं नीति-नियम-कानून-निर्माणम् अस्ति।

सा वदति यत् केवलं संविधाने अधिकारलिखनं पर्याप्तं न भवति, किन्तु तेषां कार्यान्वयनार्थं स्पष्टनीतिः तन्त्रं च आवश्यकम्। सा शिक्षायाः, स्वास्थ्यस्य, रोजगारस्य तथा राज्यसंस्थासु सहभागितायाः सुनिश्चिततां प्रति विशेषं बलं ददाति।

भूमिका केवलं एकस्य समुदायस्य विषये न सीमिता भवितुम् इच्छति। सा मधेसी-मुस्लिम-आदिवासी-जनजाति-दिव्यांग-आदि समुदायानामपि विषयान् उत्थापयिष्यति, यतः एतेषु सर्वेषु समुदायेषु लैंगिक-यौनिक-अल्पसंख्यकाः अपि सन्ति।

पूर्वं सा नेपाली-कांग्रेस-दले सम्बद्धा आसीत्, किन्तु अनन्तरं समावेशी-प्रतिनिधित्वस्य परिवर्तनस्य च लक्ष्यं स्वीकरोति स्म, अतः राष्ट्रिय स्वतन्त्र पार्टी इत्यस्य सह स्वराजनीतिकयात्रां प्रवर्तितवती।

तस्याः मते संविधानिक-अधिकारप्राप्तौ अपि समाजे एतेषां समुदायानां प्रति दृष्टिकोणः पूर्णतया परिवर्तितः नास्ति। सा वदति यत् यदा वयं स्वयम् निर्णय-स्थानेषु स्थास्यामः, तदा एव अस्माकं विषयाः प्रभावकरूपेण प्रस्तूयन्ते।

दीर्घसंघर्षेण, परिचय-युद्धेन, सामाजिक-अभियानेन च संसदं प्राप्तवती भूमिका श्रेष्ठा अधुना नेपालस्य लैंगिक-यौनिक-अल्पसंख्यक-इतिहासे शक्तिशाली स्वरूपेण प्रतिष्ठिता अस्ति।

------------

हिन्दुस्थान समाचार