Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 17 मार्चमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी साहसस्य आत्मविश्वासस्य च इच्छाशक्तेः महत्त्वं प्रतिपादयन् संस्कृतसुभाषितं साझा कृतवान्। प्रधानमन्त्री मङ्गलवासरे सामाजिकमाध्यममञ्चे उक्तवान् यत् यः पुरुषः साहसेन संकल्पेन च पूर्णः भवति तस्य कृते जीवने किमपि असम्भवम् न भवति। आत्मविश्वासस्य इच्छाशक्तेः च बलात् कठिनतमाः अपि चुनौतयः अतिक्रमितुं शक्यन्ते।
तेन संस्कृतसुभाषितं अपि उद्धृतम्— एकोऽपि सिंहः साहस्रं यूथं मथ्नाति दन्तिनाम्। तस्मात् सिंहमिव उदारम् आत्मानं वीक्ष्य सम्पतेत्॥
अस्य सुभाषितस्य अर्थः अस्ति यत् यथा एकः सिंहः सहस्रं गजानां समूहं पराजयितुं समर्थः भवति तथा एव मनुष्यः अपि स्वस्य आन्तरिकां शक्तिं ज्ञात्वा सिंहवत् साहसी आत्मविश्वासी उदारश्च भूत्वा निर्भयतया अग्रे गन्तव्यम्।
---------------
हिन्दुस्थान समाचार