Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 17 मार्चमासः (हि.स.)।
राष्ट्रपतिः द्रौपदी मुर्मुः उक्तवती यत् देशस्य भविष्यं अस्माकं बालकाः सन्ति, तेषां कृते पौष्टिक-आहारस्य तथा गुणवत्तायुक्त-शिक्षायाः उपलब्धिः सुनिश्चितीकरणं अत्यन्तं आवश्यकम्। सा मंगलवासरे राष्ट्रपतिभवन-सांस्कृतिक-केन्द्रे अक्षय-पात्र-फाउंडेशन-संस्थया पञ्च-अर्बुद-भोजन-सेवनस्य उपलब्धेः उपलक्ष्ये आयोजिते कार्यक्रमे सम्बोधयन्ती एतत् अवदत्।
तया उक्तं यत् भारत-सरकारेण गर्भिणी-स्त्रीणां बालकानां च उत्तम-पोषण-स्वास्थ्य-सेवानां उपलब्धये बहवः महत्त्वपूर्णाः उपक्रमाः प्रारब्धाः। पीएम-पोषण-योजनायाः अन्तर्गतं सञ्चलितः विद्यालय-मध्याह्न-भोजन-कार्यक्रमः अभिभावकानां कृते बालकान् विद्यालयं प्रेषयितुं महत्त्वपूर्णः प्रेरणास्रोतः अभवत्। अनेकेषु अध्ययनिषु एतत् स्पष्टं यत् अस्य योजनाया प्रभावेण नामांकनं, उपस्थिति-दरः, विद्यालये स्थितिः च वर्धिता, तेषां अधिगम-क्षमता तथा शैक्षणिक-प्रदर्शनम् अपि उन्नतम् अभवत्।
राष्ट्रपतिः अवदत् यत् अक्षय-पात्र-फाउंडेशन ‘समग्र-शिक्षा-अभियान’स्य उद्देश्यान् प्रगतिं नयति, यस्य लक्ष्यं 2030 वर्षपर्यन्तं सर्वेभ्यः बालकेभ्यः समावेशी-गुणवत्तायुक्त-शिक्षा प्रदातुम् अस्ति। सा पञ्च-अर्बुद-भोजन-प्रदानस्य उपलब्धिं प्रशंसनीयं मन्यते स्म, तथा ‘पोषित-शिक्षित-भारततः विकसित-भारत’ इति कार्यक्रमस्य विषयः ‘विकसित-भारत 2047’ इति राष्ट्रीय-संकल्पस्य सिद्धौ पोषण-शिक्षयोः महत्त्वं दर्शयति इति उक्तवती।
सा पुनः अवदत् यत् बालकानां सुरक्षित-उज्ज्वल-भविष्यस्य दायित्वं केवलं सरकारस्य न, अपि तु समाजस्य सर्वेषां वर्गाणां संयुक्तं दायित्वम् अस्ति। यदा शिक्षकाः, अभिभावकाः, सामाजिक-संस्थाः, कॉर्पोरेट-क्षेत्रम्, समाजस्य सदस्याश्च सहकार्यं कुर्वन्ति, तदा एव आगामि-पीढ्याः कृते दृढा आधारशिला निर्मीयते। शिक्षा व्यक्तेः जीवनस्य अवसरान् निर्धारयति, तं सशक्तं करोति च। विद्यालयः बालकान् जीवनस्य चुनौतिभिः सह सामना कर्तुं आवश्यक-कौशलानि अनुभवांश्च ददाति।
राष्ट्रपतिः गत-पञ्चविंशतिवर्षेभ्यः बालकेषु कुपोषण-निवारणाय तथा तेषां शिक्षायै प्रेरणार्थं मध्याह्न-भोजन-प्रदाने निरतस्य अक्षय-पात्र-फाउंडेशनस्य प्रशंसां कृतवती। सा उक्तवती यत् बालकाः केवलं लाभार्थिनः न, अपि तु राष्ट्रस्य उज्ज्वल-भविष्यस्य निर्मातारः सन्ति। अद्य तेषां प्राप्तः पौष्टिक-आहारः राष्ट्रस्य मानव-संसाधन-निवेशः अस्ति, यः 2047 पर्यन्तं विकसित-भारत-निर्माणे महत्त्वपूर्णं योगदानं दास्यति।
केन्द्रीय-मन्त्री धर्मेन्द्र प्रधान महोदयः इस्कॉन-संस्थायाः संस्थापक-आचार्यं श्रील-प्रभुपादं प्रति श्रद्धांजलिं अर्पितवान्। तेन उक्तं यत् तस्य प्रेरणया एषा निःस्वार्थ-भोजन-वितरण-प्रवृत्तिः प्रारब्धा, या अद्य जन-आन्दोलनरूपेण परिवर्तिता अस्ति। पञ्चविंशतिवर्षीय-यात्रा न सरलासीत्, किन्तु अद्य अस्य महान् लाभार्थी भारतीय-शिक्षा-क्षेत्रम् अस्ति। षोडश-राज्येषु पञ्चविंशतिसहस्राधिकेषु विद्यालयेषु प्रतिदिनं त्रयोविंशतिलक्षाधिकेषु (23.5 लाख) बालकेषु पौष्टिक-भोजनं प्रदीयते।
तेन उक्तं यत् यावत् अस्माकं बालकाः युवानः च सुपोषिताः न भविष्यन्ति, तावत् भारतं स्वस्य पूर्ण-क्षमतां न प्राप्स्यति। अद्य भारतस्य विकासः केवलं भौगोलिक-सीमासु न सीमितः, अपि तु वैश्विक-दक्षिणस्य मानव-कल्याणस्य च प्रति अस्य उत्तरदायित्वम् अस्ति। एषा एव ‘वसुधैव-कुटुम्बकम्’ इति भावनायाः सारः।
अक्षय-पात्र-फाउंडेशन पीएम-पोषण-योजनायाः महत्त्वपूर्णः कार्यान्वयन-सहभागी अभवत्। गुणवत्तायाः, स्वच्छतायाः, नवोन्मेषस्य च प्रति निष्ठया एषा योजना अधिकं सुदृढीक्रता। एषा सहभागिता दर्शयति यत् सरकारः, समाजः, संस्थाः च संयुक्तरूपेण देशस्य जटिल-समस्याः समाधानं कर्तुं समर्थाः भवन्ति। देशस्य प्रत्येक-बालकं प्रति पौष्टिक-भोजन-प्रदानं केवलं सेवा न, अपि तु भविष्ये प्रति अस्माकं संकल्पः अस्ति।
अक्षय-पात्र-संस्थायाः संस्थापक-अध्यक्षः तथा इस्कॉन-बेंगलुरु-अध्यक्षः मधु-पण्डित-दास महोदयः अवदत् यत् यदा वयं मानव-सेवायाः पञ्चविंशतिवर्षाणि तथा पञ्च-अर्बुद-भोजन-प्रदानस्य उपलब्धिं उत्सवेन स्मरामः, तदा वयं श्रील-प्रभुपादस्य एतं महान् संकल्पं पुनः स्मरामः—“कोऽपि मानवः न भूक्षितः भवेत्” इति। एषः कार्यक्रमः सर्वान् सहभागिनः बालक-सेवायां अधिक-उत्साहेन प्रवर्तितुं प्रेरयति।
अक्षय-पात्र-संस्थायाः उपाध्यक्षः चञ्चलापति-दास महोदयः अपि अवदत् यत् अस्याः सफल-सार्वजनिक-निजी-सहभागितायाः पीपीपीमाध्यमेन भविष्ये अधिकानां बालकानां पोषण-शिक्षयोः सुलभता वर्धिष्यते, ये च आगामिषु वर्षेषु विकसित-भारत-निर्माणे योगदानं दास्यन्ति।
----------
हिन्दुस्थान समाचार