Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, १७ मार्चमासः (हि.स.)। तृणमूल-काङ्ग्रेस-दलस्य घोषित-स्थितेः विपरीतं गत्वा वरिष्ठ-सांसदः सौगत-रायः राष्ट्रपतेः जलपाने-कार्यक्रमे सहभागीभूतः इति विषयं प्रति दलस्य अन्तः राजनैतिक-चर्चाः तीव्रतां गताः। सोमवासरे आयोजिते अस्मिन् कार्यक्रमे तृणमूलस्य अन्यः कश्चन सांसदः सहभागी नाभवत्, किन्तु दमदम-क्षेत्रात् सांसदस्य सौगत-रायस्य उपस्थित्या अनेके प्रश्नाः उद्भूताः।
वस्तुतः अस्य मासस्य प्रारम्भे पश्चिम-बङ्गाल-राज्य-प्रवासम् आगता राष्ट्रपतिः द्रौपदी-मुर्मू आदिवासी-सम्मेलने राज्य-शासनस्य व्यवस्था-आतिथ्ययोः विषये सार्वजनिकतया असन्तोषं व्यक्तवती। तया एतदपि पृष्टं यत् राज्यस्य मुख्यमन्त्री ममता-बनर्जी अथवा तया नामितः कश्चन मन्त्रिमण्डल-स्तरीयः मन्त्री कार्यक्रमे उपस्थितः नासीत्। अस्याः घटनायाः अनन्तरं तृणमूल-दलस्य राष्ट्रपतेः भवनस्य च मध्ये सम्बन्धेषु शेथिलता जाता इति चर्चाः आरब्धाः।
एतस्मिन् परिप्रेक्ष्ये १६ मार्च-दिने राष्ट्रपतेः जलपान-निमन्त्रणं तृणमूल-दलेन अस्वीकारयितुं निर्णयः कृतः। राज्यसभायां दलस्य मुख्य-सचेतकः नादिमुल-हकः राष्ट्रपतिं प्रति पत्रं लिखित्वा अवदत् यत् पवित्र-रमजान-मासे उपवास-पालनस्य कारणेन सः अस्मिन् कार्यक्रमे सहभागी भवितुं न शक्नोति। तेन एतदपि सूचितं यत् यदि कार्यक्रमः ईद्-उत्सवात् अनन्तरं आयोजितः स्यात् तर्हि उत्तमम् अभविष्यत्।एवं प्रकारेण स्थितौ सौगत-रायस्य राष्ट्रपतेः भवनं प्रति गमनं तथा जलपाने सहभागिता राजनैतिक-परिसरे चर्चायाः विषयः अभवत्। जलपान-कार्यक्रमानन्तरं सः राष्ट्रपतिना सह शिष्टाचार-साक्षात्कारं कृतवान्, ततः अनन्तरं संसदः कार्यवाह्यां अपि सहभागी अभवत्।
अस्मिन् विषये स्वस्पष्टीकरणं दत्त्वा सौगत-रायः अवदत्— “मया निमन्त्रणं प्राप्तम् आसीत्, अतः अहं गतवान्। दलस्य पक्षात् मम गमनाय न निर्देशः दत्तः, न च निषेधः कृतः।”
अस्य कृत्यस्य विषये लोकसभायां तृणमूल-दलस्य उपनेत्री शताब्दी-रायः अवदत्— “सौगत-दा बहुवारं एतादृशान् निर्णयान् गृह्णाति ये दलस्य रेखायाः भिन्नाः भवन्ति। अस्य विषयस्य सम्यक् अवगमनं ‘दीदी’ एव कर्तुं शक्नोति। सः वयोवृद्धः अस्ति, भोजन-रसिकः अपि अस्ति, अतः सम्भवतः गतवान्।”
यद्यपि दलस्य सूत्राणां कथनम् अस्ति यत् राष्ट्रपतेः भवनस्य अस्य कार्यक्रमस्य विषये सांसदेभ्यः कश्चन औपचारिक-निर्देशः न दत्तः। अतः अस्मिन् सहभागिता पूर्णतया व्यक्तिगत-निर्णयः मन्यते, अत्र विवादस्य काचिदपि आवश्यकता नास्ति।अन्यत्र भारतीय-जनता-पक्षस्य सांसदः मनोज-टिग्गा आरोपं कृतवान् यत् सौगत-रायः गत-कालात् दलस्य घोषित-स्थितेः भिन्नं मतं गृह्णाति।
एतेषु सर्वेषु मध्ये तृणमूल-दलेन सोमवासरे राष्ट्रपतिना सह साक्षात्कार-समयं याचमानं अन्यत् पत्रम् अपि प्रेषितम्। अस्मात् पूर्वं गत-सप्ताहे अपि द्वे पत्रे प्रेषिते आस्ताम्, किन्तु अद्यावधि तयोः कस्यापि उत्तरं न प्राप्तम्।
हिन्दुस्थान समाचार / अंशु गुप्ता