Enter your Email Address to subscribe to our newsletters

-लोकभवने मंगलवासरे मुख्यमंत्री योगी आदित्यनाथः 555 श्रद्धालुभ्यो वितरिष्यते एक-एकलक्षस्य रुपयकाणां वित्तीय सहायता
लखनऊ, 17 मार्चमासः (हि. स.)।
कैलासमानसरोवरतीर्थस्य दर्शनार्थिभ्यः उत्तरप्रदेशसरकारा अद्य मङ्गलवासरे महतीं पहलां कर्तुं प्रवर्तते। लोकभवने आयोजिते विशेषकार्यक्रमे मुख्यमंत्री योगी आदित्यनाथः ५५५ श्रद्धालुभ्यः प्रत्येकं एकलक्षरूप्यकपरिमितां वित्तीयसहायतां वितरिष्यति।
अयं कार्यक्रमः पर्यटनविभागेन आयोज्यते, यस्य उद्देश्यः तीर्थयात्रिकाणां प्रोत्साहनं तेषां यात्रायाः सुगमता च अस्ति। अस्मिन् कार्यक्रमे बहुसंख्यकाः श्रद्धालवः, जनप्रतिनिधयः अधिकारीणश्च उपस्थिताः भविष्यन्ति। प्रदेशसरकारस्य प्रवक्तुः वचनम् अस्ति यत् एषा पहलाऽधार्मिकपर्यटनस्य संवर्धनं श्रद्धालुषु संवेदनशीलतायाः प्रदर्शनं च करोति।
कैलासमानसरोवरयात्रा सनातनधर्मे अतीव पवित्रा मन्यते, सा च अतीव दुर्गमा व्ययबहुला च अस्ति। अतः राज्यसरकारेण प्रदत्ता एषा आर्थिकसहायता यात्रिकाणां कृते महतीं राहतिं प्रदास्यति।
प्रदेशसरकारा निरन्तरं धार्मिकस्थलानां विकासे, तीर्थयात्राणां सुलभीकरणे, श्रद्धालूनां प्रोत्साहने च कार्यरताऽस्ति। अनेन कार्यक्रमेण प्रदेशे धार्मिकपर्यटनस्य नूतना गति प्राप्तुं सम्भावना वर्तते। अस्मिन् कार्यक्रमे मुख्यमंत्रीना सह वित्तसंसदीयकार्य मन्त्री सुरेशकुमारखन्ना, पर्यटनसंस्कृतिमन्त्री जयवीरसिंहः अन्ये वरिष्ठजनप्रतिनिधयश्च उपस्थिताः भविष्यन्ति।
उल्लेखनीयम् यत् कैलासमानसरोवरवत् दुर्गमायाः तीर्थयात्रायाः सुलभीकरणाय उत्तरप्रदेशसरकारा आर्थिकसहायतारूपेण महत्वपूर्णं पादं स्थापितवती। प्रदेशस्य स्थायिनिवासिनां कृते एकलक्षरूप्यकपर्यन्तं अनुदानस्य व्यवस्था अस्ति, यत् यात्रासमाप्तेः अनन्तरं आवेदनपत्रदस्तावेजसत्यापनयोः उपरान्तं प्रत्यक्षतया लाभार्थिनां खातेषु प्रेष्यते।
तथैव देशस्य सर्वतः आगच्छतां यात्रिकाणां निवाससुविधार्थं गाजियाबादनगरस्य कैलासमानसरोवरभवनस्य निर्माणम् अपि कृतम्, येन यात्रिकेभ्यः उत्तमं निवाससुविधाः प्राप्यन्ते।
एषा पहलाऽकेवलं आस्थायाः सम्मानः नास्ति, अपितु धार्मिकपर्यटनस्य संवर्धनद्वारा उत्तरप्रदेशस्य अधिकप्रगतिम् अपि साधयितुं प्रयासः अस्ति।
---------------
हिन्दुस्थान समाचार