उत्तर प्रदेश सर्वकारो नामित पार्षदाः घोषिताः
लखनऊ, 17 मार्चमासः (हि. स.)। उत्तरप्रदेश-सर्वकारेण प्रदेशस्य सर्वेषु नगरनिगमेषु नगरपालिकासु च मनोनीतानां पार्षदानां घोषणा कृता। भारतीयजनतापार्टी-सङ्गठनस्य सिफारिशया नगरविकासविभागेन प्रत्येकस्मिन् नगरनिगमे दश-दश पार्षदाः मनोनीताः। नगरविकासविभागस्
पार्षद


पार्षदों की सूची


लखनऊ, 17 मार्चमासः (हि. स.)।

उत्तरप्रदेश-सर्वकारेण प्रदेशस्य सर्वेषु नगरनिगमेषु नगरपालिकासु च मनोनीतानां पार्षदानां घोषणा कृता। भारतीयजनतापार्टी-सङ्गठनस्य सिफारिशया नगरविकासविभागेन प्रत्येकस्मिन् नगरनिगमे दश-दश पार्षदाः मनोनीताः।

नगरविकासविभागस्य प्रमुखसचिवः पी. गुरु प्रसादः सोमवासरे निर्गतायां अधिसूचनायां पार्षदानां मनोनयनस्य घोषणा कृतवान्। प्रमुखसचिवः गुरु प्रसादः अवदत् यत् मनोनीताः पार्षदाः स्वस्वक्षेत्रेषु स्थानीयपार्षदैः सह मिलित्वा नगराणां विकासकार्याणि करिष्यन्ति। ते सभायाः कार्यवाह्याः भागः न भविष्यन्ति, किन्तु स्वक्षेत्रेषु विकासाय सिफारिशाः कर्तुं शक्नुवन्ति।

नगरविकासविभागेन १९०-पृष्ठपरिमिता अधिसूचना निर्गता अस्ति। अस्याम् अधिसूचनायां प्रदेशस्य सर्वेषु नगरनिगमेषु भारतीयजनतादलं तथा सहयोगीदलानां दश-दश नेतारः पार्षदत्वेन मनोनीताः। लघुनगरपालिकासु अपि पञ्च-षट् पार्षदानां मनोनयनम् अभवत्।

उल्लेखनीयम् यत्, अतीतदिनेषु भारतीयजनतादलं सङ्गठोपवेशनं कृत्वा पार्षदानां नामसु चर्चा कृता आसीत्

---------------

हिन्दुस्थान समाचार