विधानसभा-निर्वाचनम्–२०२६: निर्वाचन-आयोगेन १३ आरक्षक-अधिकारिणां स्थानान्तरणं कृतम्, आदेशः तत्काल-प्रभावेन प्रवृत्तः
कोलकातानगरम्, १७ मार्चमासः (हि.स.)। पश्चिम-बङ्गाल-राज्यस्य विधानसभा-निर्वाचनम्–२०२६ इत्यस्य घोषणायाः अनन्तरं भारत-निर्वाचन-आयोगेन राज्यस्य आरक्षक-प्रशासने महत् परिवर्तनं कृत्वा १३ वरिष्ठ-अधिकारिणां स्थानान्तरणं कृतम्। आयोगेन एषः निर्णयः निष्पक्ष-शा
मुख्य चुनाव अधिकारी मनोज अग्रवाल


कोलकातानगरम्, १७ मार्चमासः (हि.स.)। पश्चिम-बङ्गाल-राज्यस्य विधानसभा-निर्वाचनम्–२०२६ इत्यस्य घोषणायाः अनन्तरं भारत-निर्वाचन-आयोगेन राज्यस्य आरक्षक-प्रशासने महत् परिवर्तनं कृत्वा १३ वरिष्ठ-अधिकारिणां स्थानान्तरणं कृतम्। आयोगेन एषः निर्णयः निष्पक्ष-शान्तिपूर्ण-निर्वाचनस्य सुनिश्चित्यर्थं गृहीतः।

निर्वाचन-आयोगेन १७ मार्च-मासे निर्गतादेशे उक्तं यत् निर्वाचन-सज्जानां समीक्षां कृत्वा एते अधिकारिणः नूतन-पदेषु तत्काल-प्रभावेन नियुक्ताः स्युः इति निर्देशः दत्तः। सहैव राज्यसर्वकारं प्रति १८ मार्चमासे प्रातः ११ वादनपर्यन्तं सर्वेषां अधिकारिणां कार्यभार-ग्रहणस्य अनुपालन-प्रतिवेदनं प्रेषयितुं निर्दिष्टम्।

स्थानान्तरितेषु अधिकारिषु पुष्पा इत्यस्याः बारासात-आरक्षक-जनपदस्य आरक्षक-अधीक्षकत्वे नियुक्तिः कृता, जसप्रीत-सिंहः कूचबिहार-जनपदे, सूर्य-प्रताप-यादवः बीरभूम-जनपदे, राकेश-सिंहः इस्लामपुर-आरक्षक-जनपदे, कुमार-सनी-राजः हुगली-ग्रामीण-जिले तथा इशानी-पालः डायमण्ड-हार्बर-आरक्षक-जनपदे आरक्षक-अधीक्षकत्वे नियुक्ताः।

अतिरिक्ततया सचिनः मुर्शिदाबाद-आरक्षक-जनपदे, अलकनन्दा-भौवालः बसीरहाट-आरक्षक-जनपदे, अनुपम-सिंहः मालदा-जनपदे, अंशुमान-साहा पूर्व-मेदिनीपुर-जनपदे, येलवाड-श्रीकान्त-जगन्नाथरावः कोलकाता-नगरस्य सेंट्रल-डिवीजन-इत्यस्य उपायुक्तः, सुरिन्दर-सिंहः जंगीपुर-जनपदे तथा पापिया-सुल्ताना पश्चिम-मेदिनीपुर-जनपदे आरक्षक-अधीक्षकत्वे नियुक्ताः।आयोगेन एतदपि स्पष्टं कृतं यत् येषां अधिकारिणां स्थानान्तरणं कृतम्, ते निर्वाचन-प्रक्रियायाः समाप्तिपर्यन्तं कस्यापि निर्वाचन-सम्बद्ध-पदे नियुक्ताः न भविष्यन्ति।

उल्लेखनीयम् अस्ति यत् पश्चिम-बङ्गाल-राज्यस्य २९४ विधानसभा-आसनानां कृते अस्मिन् वर्षे द्वयोः चरणयोः २३ अप्रैलमासे तथा २९ अप्रैलमासे मतदानं भविष्यति, मतगणनायाः तिथिः तु अनन्तरं घोषितं भविष्यति। निर्वाचनात् पूर्वं प्रशासनिक-आरक्षक-स्तरे कृतम् एतत् परिवर्तनम् आयोगस्य कठोरता पारदर्शी-निर्वाचन-प्रक्रियायाः सुनिश्चित्यर्थं तस्य प्रतिबद्धतां दर्शयति।

हिन्दुस्थान समाचार / अंशु गुप्ता