Enter your Email Address to subscribe to our newsletters

चंडीगढ़म्, 17 मार्चमासः (हि.स.)।
काङ्ग्रेसदलेन प्रदत्तचिटिकया हरियाणाराज्यात् राज्यसभां प्राप्तः कर्मवीरसिंहबौद्धः अनुसूचितजात्याः सदस्यः अस्ति। कर्मवीरः अम्बालाजनपदस्य निवासी अस्ति। २०२४ तमे वर्षे हरियाणाविधानसभानिर्वाचने मुलानाक्षेत्रात् चिटिकायाः तथ्यम्आसीत्।
हरियाणासिविलसचिवालयात् सः प्रायः पञ्चवर्षपूर्वं अधीक्षकपदात् सेवानिवृत्तः अभवत्। तस्य पत्नी श्रमविभागे सहायकपदे कार्यरताऽस्ति।
राहुलगान्धिनः संविधानबचाओअभियाने बौद्धः अत्युत्साहेन सहभागित्वं कृतवान्, यस्य फलरूपेण अस्य एषः पुरस्कारः प्राप्तः। यदा तस्य टिकटस्य घोषणा अभवत् तदा काङ्ग्रेसदलस्य बहवः विधायकाः आश्चर्यचकिताः अभवन्, यतः एषः तेषां कृते अपरिचितः मुखः आसीत्।
हरियाणायाः आईपीएसअधिकारी वायपूरणकुमारस्य आत्महत्यायाः अनन्तरं उत्पन्नस्य आन्दोलनस्य नेतृत्वं बहुशः कर्मवीरबौद्धेन एव धारितम्।
तस्य चिटिकाप्राप्तौ हरियाणायाः एकस्य आईएएसअधिकारीणः अपि महत्वपूर्णा भूमिका आसीत्।
---------------
हिन्दुस्थान समाचार