विद्युत्संपृक्ततया संबद्धानां संचिकानां निस्तारणम् : प्रबंधनिदेशकः
प्रबंध निदेशक ने अधिकारियों के साथ बिजली व्यवस्था की समीक्षा की
मुरादाबाद मंडल के एसई विद्युत समेत पांच को चार्जशीट


मुरादाबादम् , 17 मार्चमासः (हि.स.)।

विद्युत्-आपूर्तिव्यवस्थायाः सुधारार्थं तथा दीर्घकालात् लंबितेषु संयोजनसम्बद्धमामलेषु निस्तारणार्थं पश्चिमांचल विद्युत वितरण निगम लिमिटेड (पीवीवीएनएल) इत्यस्य प्रबन्धनिदेशकः रवीश गुप्ता मङ्गलवासरे सभां आयोजितवान्। सभायां निर्दिष्टम् यत् नवीनविद्युत्संयोजनसम्बद्धाः सर्वाः सञ्चिकाः शीघ्रमेव निस्तार्यन्ताम्।

प्रबन्धनिदेशकः अद्य मेरठ नगरात् दिल्ली रोड स्थितं मुख्याभियन्तृकार्यालयं प्राप्तवान्, तत्र सर्वैः अधिकारिभिः सह विद्युत्व्यवस्थायाः समीक्षा कृता। येषु सञ्चिकासु दीर्घकालात् विलम्बः अस्ति, तासु उपभोक्तृभ्यः सम्पर्कं कृत्वा आवश्यकदस्तावेजाः पूर्णीकर्तव्याः, येन संयोजनप्रक्रियायां विलम्बः न भवेत्। अधिकारिणः निर्देशिताः यत् ते उपभोक्तृभिः सह सततं सम्पर्कं कुर्वन्तु तथा च लंबितमामलान् प्राधान्येन निस्तारयन्तु।

ग्रीष्मकालस्य दृष्ट्या प्रबन्धनिदेशकः ३३ केवी तथा ११ केवी फीडराणां समीक्षा अपि कृतवान्, येन विद्युत्-आपूर्तिः सुचारुरूपेण प्रवर्तेत। अधिशासी-अभियन्तारः स्वस्वक्षेत्रेषु फीडराणां निरीक्षणं कृत्वा आवश्यकं संरक्षणं कुर्वन्तु, दूषितयन्त्राणि समये परिवर्तयन्तु इति निर्देशाः दत्ताः। तथा च रेखा-रक्षणकार्येषु सुरक्षामानकानां पालनं करणीयम्। सुरक्षोपकरणानां उपयोगेन सह कार्यस्य छायाचित्र-चलच्चित्र-लेखनम् अपि करणीयम् इति निर्दिष्टम्।

सभायां ई-कार्यालयप्रणाल्याः प्रभावी-प्रवर्तनम् अपि बलपूर्वकं निर्दिष्टम्। अस्मिन् अवसरे मुख्याभियन्ता अशोक कुमार चौरसिया, अधीक्षण-अभियन्ता प्रशांत कुमार इत्यादयः सर्वे अधिशासी-अभियन्तारः उपस्थिताः आसन्।

हिन्दुस्थान समाचार