Enter your Email Address to subscribe to our newsletters

चंडीगढ़म्, 17 मार्चमासः (हि.स.)।
हरियाणातः राज्यसभां प्रति गच्छन् भारतीयजनतापार्टीस्य नेता संजय भाटिया दीर्घकालपर्यन्तं पार्टीसङ्गठने सक्रियम् आसीत्। हरियाणाभाजपायां युवा मोर्चात् आरभ्य विभिन्नेषु दायित्वेषु सफलतया कार्यं कृत्वा वर्तमानकाले सः पश्चिमबङ्गे आगामिनि विधानसभा निर्वाचनकार्यं पश्यति।
पानीपत-नगर्यां 29 जुलाई 1967 तमे दिने जातः संजय भाटिया छात्रजीवनात् एव भारतीयजनतापार्टीस्य छात्रसंघटनम् अखिलभारतीयविद्यार्थीपरिषद् इत्यनेन सह सम्बद्धः सन् सङ्गठनात्मककार्यं प्रारब्धवान्। तस्य राजनैतिकजीवनस्य आरम्भः 1980 दशकस्य मध्ये अभवत्, यदा सः 1987 तमे वर्षे मण्डलमहासचिवः अभवत् तथा 1989 तमे वर्षे मण्डलाध्यक्षपदं स्वीकृतवान्।
अनन्तरं सः भारतीयजनतायुवामोर्चायां महत्त्वपूर्णानि पदानि धारितवान्। सः जिलामहासचिवः, जिलाध्यक्षः तथा 1998 तमे वर्षे राज्यमहासचिवः अपि अभवत्। 2001 तमे वर्षे तं नगरपरिषदः अध्यक्षः नियुक्तः, यत् तस्य लोकप्रियतायाः तथा सङ्गठने सक्रियतायाः प्रमाणम् आसीत्।
भाजपायां सः मण्डलाध्यक्षः, जिलामहासचिवः, जिलाध्यक्षः, स्थानीयनिकायप्रकोष्ठस्य राज्यसंयोजकः तथा किसानमोर्चस्य राज्यकार्यकारिणीसदस्यः इत्यादिषु पदेषु आसीत्। 2015 तः 2021 पर्यन्तं सः भाजपाहरियाणायाः राज्यमहासचिवः आसीत् तथा हरियाणा खादी एवं ग्रामोद्योग बोर्डस्य पूर्वाध्यक्षत्वेन ग्रामीणविकासं स्वरोजगारवृद्धिं च प्रोत्साहितवान्।
तस्य प्रमुखा राजनैतिकसफलता 2019 लोकसभा निर्वाचनकाले अभवत्, यदा सः प्रथमवारं निर्वाचनं लढित्वा करनाललोकसभाक्षेत्रात् भाजपापक्षस्य प्रत्याशी भूत्वा विशालमताधिक्येन विजयी अभवत्। 2024 तमे वर्षे सः पार्टीनिर्णयं सम्मान्य स्वीयां आसन्दीं त्यक्तवान् तथा सङ्गठनात्मकदायित्वानि निर्वहन् हरियाणा विधानसभा निर्वाचनकार्ये महत्त्वपूर्णां भूमिकां निर्वहति स्म।
अद्यतनकाले भाजपया तं राज्यसभायाः कृते प्रत्याशी कृतः, सः च अद्य निर्वाचनं जित्वा राज्यसभां प्राप्तवान्।
-----
हिन्दुस्थान समाचार