स्वामिनः श्रद्धानंदस्य तपोस्थली कांगड़ी ग्रामे यज्ञः
हरिद्वारम्, 17 मार्चमासः (हि.स.)।राष्ट्रियसेवायोजनायाः इकाई-०२ इत्यस्य सप्तदिवसीयविशेषशिविरस्य पञ्चमदिवसस्य शुभारम्भः प्रातःकालीनयोगाभ्यासेन अभवत्। शिविरे उपस्थिताः सर्वाः स्वयंसेविकाः उत्साहपूर्वक योगाभ्यासं कृत्वा स्वस्थजीवनशैलीं स्वीकर्तुं सन्दे
यज्ञ करते हुए


हरिद्वारम्, 17 मार्चमासः (हि.स.)।राष्ट्रियसेवायोजनायाः इकाई-०२ इत्यस्य सप्तदिवसीयविशेषशिविरस्य पञ्चमदिवसस्य शुभारम्भः प्रातःकालीनयोगाभ्यासेन अभवत्। शिविरे उपस्थिताः सर्वाः स्वयंसेविकाः उत्साहपूर्वक योगाभ्यासं कृत्वा स्वस्थजीवनशैलीं स्वीकर्तुं सन्देशं प्रदत्तवन्त्यः।

अस्मिन् अवसरे अमरहुतात्मनः स्वामिश्रद्धानन्दस्य तपोस्थल्यां पुण्यभूमौ काङ्गड़ीग्रामे यज्ञस्य आयोजनं कृतम्। कार्यक्रमस्य समये राष्ट्रियसेवायोजनायाः वरिष्ठकार्यक्रमाधिकारिणी डॉ सङ्गीता मदान स्वयंसेविकाः सम्बोध्य यज्ञस्य आध्यात्मिकवैज्ञानिकसामाजिकमहत्त्वे विषये विस्तरेण प्रकाशं दत्तवती। तया उक्तं यत् यज्ञः भारतीयसंस्कृतेः महत्त्वपूर्णा परम्परा अस्ति, यः न केवलं पर्यावरणं शुद्धयति, अपितु चिन्तनेषु अपि सकारात्मकसंतुलनं स्थापयति।

अस्मिन् अवसरे प्रो दीनदयालः अपि यज्ञस्य महत्त्वं प्रभावशालिन्या वाचा निरूपितवान्। तेन उक्तं यत् यज्ञः केवलं धार्मिकअनुष्ठानं न, अपितु आत्मशुद्धेः अनुशासनस्य सामूहिकचेतनायाः च प्रतीकः अस्ति, यः मनुष्यं उच्चजीवनमूल्येषु प्रति प्रेरयति।

प्रो बबीता शर्मा अपि स्वयंसेविकानां उत्साहवर्धनं कृत्वा भारतीयपरम्पराः नैतिकमूल्यानि च स्वजीवने अंगीकर्तुं प्रेरितवती।

कार्यक्रमे सेवानिवृत्तः गोविन्दः, नवीनकुमारः, राहुलप्रकाशः, राजेशकुमारः इत्यादयः अन्ये च जनाः उपस्थिताः आसन्।

हिन्दुस्थान समाचार