Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 18 मार्चमासः (हि,स,)।
भारतदेशात् पश्चिम एशियादेशं प्रति श्वः मार्च मासस्य अष्टादशे दिने कुलतः पञ्चाशत् विमानयानानि सञ्चालितानि भविष्यन्ति। एयर इण्डिया तथा एयर इण्डिया एक्सप्रेस इत्येतयोः विमानसेवाः पश्चिम एशियायाः विभिन्न गन्तव्यस्थानानि संयोजयिष्यन्ति।
सूचनानुसार एतेषु विमानयानेषु चतुर्दश नियमित विमानयानानि जेद्दा नगरं प्रति द्वादश च मस्कट नगरं प्रति गमिष्यन्ति। एतानि नियमित विमानयानानि दिल्ली मुम्बई बेङ्गलुरु हैदराबाद मङ्गलुरु कोषिकोड कन्नूर कोच्चि लखनऊ तथा तिरुवनन्तपुरम् इत्यादिभ्यः प्रमुखनगरभ्यः सञ्चालितानि भविष्यन्ति।
अतिरिक्ततया चतुर्विंशतिः अनियमित विमानयानानि संयुक्त अरब अमीरात तथा सऊदी अरब देशयोः प्रति सञ्चालितानि भविष्यन्ति। एतेषां विमानयानानां प्रमुखः उद्देश्यः विशेषतः तेषां यात्रिकाणां तथा भारतीय नागरिकाणां सेवां कर्तुं वर्तते ये वर्तमान तनावपूर्ण परिस्थितिषु अपि स्वगन्तव्यं प्रति सुरक्षिततया गन्तुम् इच्छन्ति।
विमानसेवा संस्थाभिः यात्रिकेभ्यः समये एव विमानतले उपस्थितुं सर्वान् सुरक्षा नियमांश्च पालनं कर्तुम् आग्रहः कृतः। अधिकारिणां मतानुसार एतेषां अतिरिक्त विमानयानानां व्यवस्थया मध्य पूर्व प्रदेशे स्थितानां भारतीय नागरिकाणां गमनागमनं सुलभं भविष्यति।
विशेषतः अद्यतन अन्तरराष्ट्रीय तनावस्य तथा मध्य पूर्व प्रदेशस्य सुरक्षा स्थितेः परिप्रेक्ष्ये एषः निर्णयः भारतीय नागरिकाणां तथा व्यापार यात्रिकाणां सुविधा सुरक्षा च ध्यानं कृत्वा कृतः।
--------------------
हिन्दुस्थान समाचार