प्रद्युतस्य भाजपापक्षे प्रवेशे तस्य पुत्रस्य प्रतीकस्य गौरव–गोगोइना समर्थनं कृतम्
गुवाहाटीनगरम्, १८ मार्चमासः (हि.स.)। असम–प्रदेश–काङ्ग्रेस–समितेः (एपीसीसी) अध्यक्षः गौरव–गोगोई युवा–नेतुः प्रतीक–बोरदोलोईं प्रति स्वीयं समर्थनं व्यक्तवान्। एषः घटनाक्रमः तस्मिन् समये प्रकाशम् आगतः यदा तस्य पिता नगांव–क्षेत्रस्य सांसदः प्रद्युत–बोरद
गौरव गोगोई


गुवाहाटीनगरम्, १८ मार्चमासः (हि.स.)। असम–प्रदेश–काङ्ग्रेस–समितेः (एपीसीसी) अध्यक्षः गौरव–गोगोई युवा–नेतुः प्रतीक–बोरदोलोईं प्रति स्वीयं समर्थनं व्यक्तवान्। एषः घटनाक्रमः तस्मिन् समये प्रकाशम् आगतः यदा तस्य पिता नगांव–क्षेत्रस्य सांसदः प्रद्युत–बोरदोलोई काङ्ग्रेस–दलात् त्यागपत्रं दत्त्वा अद्य भारतीय–जनता–पक्षे सम्मिलितः।

गौरव–गोगोई प्रद्युत–बोरदोलोई–इत्यस्य दल–परिवर्तनस्य निर्णयं “अत्यन्तं दुर्भाग्यपूर्णम्” इति निरूपितवान्। तेन उक्तं यत् भारतीय–राष्ट्रीय–काङ्ग्रेसः (आईएनसी) लोकसभा–निर्वाचने तेन सह स्थितवती आसीत्, अपि च अस्मिन् समये पक्षः तस्य परिवारस्य सदस्याय विधानसभा–निर्वाचनस्य पत्रकम् अपि दत्तवान्। तथापि सः स्वकीय–कारणैः पक्षं त्यक्तवान् इति तेन उक्तम्।

गोगोई उक्तवान् यत् सः व्यक्तिगत–रूपेण प्रतीक–बोरदोलोई–संपर्कं करिष्यति, यः मार्घेरिटा–निर्वाचन–क्षेत्रात् काङ्ग्रेस–पक्षस्य प्रत्याशीरूपेण स्पर्धितुं सज्जः अस्ति। तेन उक्तं- “अहं कदापि न चिन्तितवान् यत् सः एतादृशीं परिस्थितिं सम्मुखीकर्तुं बाध्यः भविष्यति। अहं तम् आह्वास्यामि, स एव स्वस्य भविष्य–निर्णयं करिष्यति।”

गोगोई एतत् अपि प्रतिपादितवान् यत् अग्रिम–विधानसभा–निर्वाचनं असम–राज्यस्य भविष्यस्य कृते अत्यन्तं महत्त्वपूर्णम् अस्ति। तेन एतत् निर्वाचनं मुख्यमन्त्रिणः डॉ.हिमन्त–बिस्व–शर्मणः नेतृत्वस्य विरुद्धं व्यापक–संघर्षरूपेण निरूपितम्। तस्य अभिप्रायेण समाजस्य सर्वे वर्गाः- स्त्रियः, चाय–उद्यान–सम्बद्ध–समुदायाः, युवानः च डॉ.शर्मणः पुनः मुख्यमन्त्रित्वं न इच्छन्ति।

तथापि तेन एतत् अपि स्वीकृतं यत् प्रद्युत–बोरदोलोई–इत्यस्य डॉ.शर्मणः समर्थनस्य निर्णयः तस्य वैयक्तिकः विकल्पः एव अस्ति। निर्वाचन–गठबन्धन–विषये गोगोई उक्तवान् यत् सः ‘रायजोर–दल’–संबद्ध-विषये अखिल–गोगोई–इत्यनेन सह दूरभाषेण वार्तालापं कृतवान्, अधुना तु अग्रिम–पदम् तस्यैव निर्णयाधीनम् अस्ति।गोगोई अतीते प्रद्युतेन सह कृतस्य संवादस्य उल्लेखं कृत्वा उक्तवान् यत् एतत् निर्वाचनं कस्यचित् व्यक्तेः विषये न, अपि तु “राज्यस्य विमोचनस्य” विषये अस्ति—भयात्, भ्रष्टाचारात्, विभाजनकारी–राजनीत्याः च मुक्तिः इति तेन निरूपितम्। भूमिवितरणे अनियमितताः आरोप्य तेन उक्तं यत् यत्र बहवः निर्धनाः जनाः भूमिपट्टान् न प्राप्नुवन्ति तथा उच्च–राजस्व–भारं वहन्ति, तत्र अन्यत्र एकस्यैव कुलस्य सदस्याः सहस्रशः बीघा–भूमौ अधिकारं धारयन्ति इति आरोपः कृतः।अन्ते तेन उक्तं यत् काङ्ग्रेस–दलम् अद्यापि सुदृढम् अस्ति, विशेषतः लखीमपुर–इत्यादिषु क्षेत्रेषु।

हिन्दुस्थान समाचार / अंशु गुप्ता