Enter your Email Address to subscribe to our newsletters

बरेली, 18 मार्चमासः (हि.स.) ।उत्तरप्रदेशस्य बरेली जनपदे कर्मचारी भविष्य निधि संगठन ‘विकसित भारत रोजगार योजना’ अन्तर्गतं सामाजिक सुरक्षा आवरणस्य विस्तारार्थं अभियानं तीव्रं कृतवान्। विभागस्य लक्ष्यं यथासंभव अधिकान् कर्मचारिणः भविष्यनिधि तथा पेंशनादि योजनाभिः संयोजयितुम् अस्ति।
क्षेत्रीय भविष्य निधि आयुक्त द्वितीय अनिल कुमार उक्तवान् यत् वर्तमानकाले बरेली जनपदे प्रायः त्रयस्त्रिंशत् सहस्र पेंशनराः ईपीएफओ द्वारा लाभान्विताः सन्ति। तेन उक्तं यत् येषु प्रतिष्ठानेषु पात्राः सन्तः अपि कर्मचारीणः अद्यापि ईपीएफओ मध्ये पंजीकृताः न सन्ति, तादृशानां प्रतिष्ठानानां परिचयः कृतः अस्ति। जनपदे कुलं एकोनपञ्चाशत् एते संस्थानाः चिन्हिताः सन्ति। विभागेन एतेभ्यः प्रतिष्ठानेभ्यः शीघ्रं पंजीकरणं कर्तुं निवेदनं कृतम्, येन कर्मचारीणां भविष्यनिधि पेंशन तथा अन्ये सामाजिक सुरक्षा लाभाः सुलभाः स्युः।
अस्मिन् अभियाने श्रम विभागः अपि सक्रियतया सहयोगं करोति। डाकघर सम्बद्धया बैंकिंग टीमया सह मिलित्वा कर्मचारीणः नियोक्तारः च जागरूकाः क्रियन्ते, येन असंगठित तथा अर्ध संगठित क्षेत्रेषु कार्यरताः श्रमिकाः अपि योजनानां लाभं प्राप्नुयुः।
अस्यैव क्रमस्य अन्तर्गतं ईपीएफओ बरेली २७ मार्च २०२६ दिने ‘निधि आपके निकट २.०’ कार्यक्रमान्तर्गतं विशेष शिविरान् आयोजयिष्यति। एते शिविराः अष्टसु जनपदेषु स्थाप्यन्ते, यत्र भविष्यनिधि पेंशन तथा यूएएन सम्बन्धिताः समस्याः तत्रैव समाधानं प्राप्स्यन्ति।
तथैव ईपीएफओ आगामि वित्त वर्ष २०२६-२७ कृते ब्याजदरवृद्धेः विषये चिन्तनं करोति। वर्तमान ८.२५ प्रतिशत दरः वर्धित्वा ९ प्रतिशत पर्यन्तं कर्तुं सम्भावना अस्ति। अतिरिक्ततया आधार संयोजित यूएएन माध्यमेन ऑनलाइन निकासी प्रक्रिया अपि अधिकं सरलतां प्राप्स्यति इति योजना प्रचलति। तथा न्यूनतम पेंशन वृद्धेः विषये अपि विचारविमर्शः प्रचलति।
हिन्दुस्थान समाचार