‘भारत–विद्युत–शिखर–सम्मेलनम्’ १९ मार्चमासतः २२ मार्चमासपर्यन्तं यशोभूमौ भविष्यति
सम्मेलनस्य विषयः – देशस्य विकसितमानं ऊर्जातन्त्रंनवदिल्ली, १८ मार्चमासः (हि.स.)। भारतस्य निरन्तरं विकसितमानं विद्युत्तन्त्रं आकारयितुं प्रमुखेषु प्राथमिकेषु विषयेषु विचार–विमर्शं कर्तुं ‘भारत–विद्युत–शिखर–सम्मेलनम्’ १९ मार्चमासतः २२ मार्चमासपर्यन्त
भारत विद्युत शिखर सम्मेलन 2026 के जारी लोगो का प्रतीकात्मक चित्र


सम्मेलनस्य विषयः – देशस्य विकसितमानं ऊर्जातन्त्रंनवदिल्ली, १८ मार्चमासः (हि.स.)। भारतस्य निरन्तरं विकसितमानं विद्युत्तन्त्रं आकारयितुं प्रमुखेषु प्राथमिकेषु विषयेषु विचार–विमर्शं कर्तुं ‘भारत–विद्युत–शिखर–सम्मेलनम्’ १९ मार्चमासतः २२ मार्चमासपर्यन्तं नवदिल्लीनगरे यशोभूमौ भविष्यति। एतत् विद्युत्-क्षेत्रस्य प्रमुखं वैश्विकं सम्मेलनेन सह प्रदर्शिनीरूपेण आयोज्यते।

विद्युत् तथा आवास एवं शहरीकार्य–मन्त्री मनोहर–लालः, उपभोक्ताकार्य-खाद्य एवं सार्वजनिक वितरण तथा नवीन एवं नवीकरणीय ऊर्जा–मन्त्री प्रल्हाद–जोशी, विद्युत् तथा नवीन एवं नवीकरणीय ऊर्जा–राज्यमन्त्री श्रीपद–नाइकः, केन्द्र–सर्वकारस्य विद्युत्–सचिवः पंकज–अग्रवालः, केन्द्रीय विद्युत् प्राधिकरणस्य अध्यक्षः घनश्याम–प्रसादः, दश राष्ट्रेषु ऊर्जा–मन्त्री, २५ राज्यानां तथा केन्द्रशासितप्रदेशानां विद्युत्–मन्त्री तथा सचिवाः, प्रायः षष्टि-राष्ट्रेषु राजदूताः, सर्वे केन्द्रीय-विद्युत्-क्षेत्र-उद्यमानां प्रमुखैः सह १०० सी.ई.ओ. (CEO) उपस्थिताः भविष्यन्ति।

वित्तमन्त्रालयानुसारं, एतत् शिखर–सम्मेलनं १००तः उच्चस्तरीय सम्मेलन–सत्राणि, ३००तः अधिकाः वक्तारः, ८०तः अधिकानां राष्ट्राणां प्रतिनिधयः, १००तः अधिक-स्टार्टअप्, ५००तः अधिकाः प्रदर्शकाः तथा २५,०००तः अधिकानां आगन्तव्यानां सहभागं अपेक्षते।

हिन्दुस्थान समाचार / अंशु गुप्ता