Enter your Email Address to subscribe to our newsletters

— २२ मार्चमासे गंगरेल–बन्धे रोमाञ्चक–नौकायान–उत्सवः सुसज्जितः भविष्यति
धमतरीनगरम्, १८ मार्चमासः (हि.स.)। छत्तीसगढ–राज्ये प्रथमवारं गंगरेल–बन्धस्य तरङ्गेषु रोमाञ्चस्य स्पर्धायाश्च अद्वितीयः संगमः द्रष्टुं लभ्यते। धमतरी–जनपदे ‘गंगरेल–नौकायान–उत्सव’–अन्तर्गतं बहुप्रतीक्षितः ‘महानदी–नदी–नौका–चैम्पियनशिप्’–इत्यस्य आयोजनं २२ मार्चमासे, रविवासरे, अपराह्णे त्रिवादने आरभ्यते।
अस्य आयोजनस्य विषये समग्रे जनपदे महान् उत्साहः दृश्यते तथा सर्वाः सज्जाः अन्तिम–चरणे सन्ति। अस्य भव्य-आयोजनस्य उद्देश्यं जल–पर्यटनस्य प्रोत्साहनं, स्थानीय–प्रतिभानां कृते मंच–प्रदानं, गंगरेल–बन्धस्य च प्रदेशस्य प्रमुख–पर्यटन–स्थलेषु प्रतिष्ठापनम् अस्ति। प्रतियोगितायां विभिन्न–दलानां मध्ये नौकायानस्य मनोरञ्जकाः स्पर्धाः भविष्यन्ति, ये दर्शकानां कृते विशेष–आकर्षणस्य केन्द्रं भविष्यति।
प्रतियोगितायाः विजेतृभ्यः आकर्षकाः नगद–पुरस्काराः घोषिताः सन्ति - प्रथमपुरस्कारः १ लक्ष–रूप्यकाणि, द्वितीयपुरस्कारः ५० सहस्र–रूप्यकाणि, तृतीयपुरस्कारः २५ सहस्र–रूप्यकाणि च निर्धारितानि। अस्मादतिरिक्तं नौका–सज्जा–वेशभूषा–प्रतियोगितायै ११,००० रूप्यकाणां विशेष–पुरस्कारः अपि स्थापितः, येन प्रतिभागिनः स्वीयां सृजनशीलतां प्रदर्शयितुं अवसरं प्राप्स्यन्ति।प्रतियोगितायां भागं ग्रहीतुं इच्छुकाः पक्षाः प्रति–दलम् ५०० रूप्यकाणां शुल्केन सह २० मार्चमासे २०२६, सायं पञ्चवादनपर्यन्तं पञ्जीकरणं कर्तुं शक्नुवन्ति। अधिक–सूचनार्थं ९९६९६६७३२ तथा ०९७२००९७३० इत्येतयोः दूरभाष–संख्ययोः सम्पर्कः कर्तुं शक्यते।
जनपदाधिकारिणा अभिनाश–मिश्रेण यूनः, क्रीडा–प्रेमिणः सामान्य–नागरिकान् च अस्मिन् ऐतिहासिक–आयोजने अधिकाधिक–सहभागितां सुनिश्चेतुं आह्वानं कृतम्। तेन उक्तं यत् एतत् आयोजनं क्रीडया सह मनोरञ्जकस्य अनुभवम् दास्यति, अपि च धमतरी–जनपदस्य पर्यटन–सम्भावनानां नूतनं परिचयं दास्यति। सहैव प्रतिभागिभ्यः सुरक्षा–नियम–पालनपूर्वकं उत्साहेन सहभागितायाः आग्रहः अपि कृतः।
हिन्दुस्थान समाचार / अंशु गुप्ता