विधानसभानिर्वाचनम् २०२६ - खड़गपुरे दिलीपघोषस्य प्रभावशालिनी प्रत्यावर्तनम्, लक्षैकं मतानां लक्ष्यम्
कोलकाता, १८ मार्चमासः (हि.स.)। दीर्घकालं यावत् पक्षस्य आन्तरिकविवादानां पश्चात् भाजपायाः वरिष्ठनेता दिलीप घोषः पुनः एकवारं सक्रियराजनीतेः केन्द्रे प्रत्यागतवान् अस्ति। पक्षेण सः आगामि-विधानसभा-निर्वाचनाय पश्चिम-मेदिनीपुर-मण्डलस्य ''खड़गपुर सदर''
दिलीप घोष की चुनावी यात्रा


कोलकाता, १८ मार्चमासः (हि.स.)। दीर्घकालं यावत् पक्षस्य आन्तरिकविवादानां पश्चात् भाजपायाः वरिष्ठनेता दिलीप घोषः पुनः एकवारं सक्रियराजनीतेः केन्द्रे प्रत्यागतवान् अस्ति। पक्षेण सः आगामि-विधानसभा-निर्वाचनाय पश्चिम-मेदिनीपुर-मण्डलस्य 'खड़गपुर सदर' इति आसनात् प्रत्याशीकृतः।

​बुधवासरे प्रातः भ्रमणकाले पत्रकाैः सह सम्भाषणे दिलीप घोषः बृहत् लक्ष्यं निर्धारितं कुर्वन् अवदत् यत् अस्मिन् वारे तस्य लक्ष्यं लक्षैकं (एकलक्षं) मतानि प्राप्तुम् अस्ति। सः तृणमूलकाङ्ग्रेस-पक्षं लक्ष्यीकृत्य अवदत् यत् खड़गपुरस्य जनता तं इच्छति, सः च स्वविजये पूर्णतया विश्वस्तः अस्ति।

​तेन उक्तं यत्, अहम् अत्र द्विवारं निर्वाचनं लडितवान्, द्विवारं च विजयी अभवम्। अत्र भाजपा एव विजयते। अस्माकं युद्धं केनपि विशिष्टेन व्यक्तिना सह नास्ति, अपितु पक्षेण (तृणमूलपक्षेण) सह अस्ति। खड़गपुरे सामान्यतः मतदानप्रतिशतं न्यूनं भवति, किन्तु अस्मिन् वारे अस्माकं लक्ष्यं लक्षैकं मतानि प्राप्तुम् अस्ति।

​तृणमूलकाङ्ग्रेसस्य प्रत्याशी-सूचौ कटाक्षं कुर्वन् घोषः अवदत् यत् ममता ब्यानर्जी अतीव कठिनपरिस्थित्या गुज़रन्ती (गच्छन्ती) अस्ति। सः अवदत्, यदि एवं नाभविष्यत् तर्हि सा ७४ वर्तमानानां विधायकानां नामाङ्कनं न अकर्त्स्यत्। पूर्वं सा कमपि प्रत्याशीकृत्य स्वयमेव २९४ आसनानां प्रत्याशीति कथयति स्म, किन्तु इदानीं सा स्थितिः नास्ति। तस्याः पक्षः अधुना भ्रष्टाचारस्य प्रतीकः जातः अस्ति।

​सः अग्रे अवदत् यत् ममता ब्यानर्जी एतावती भ्रमिता अस्ति यत् सा एतदपि न अवगच्छति यत् सा केन सह युद्धं कुर्यात्—निर्वाचनआयोगेन, न्यायेन वा केन्द्रीयबलैः सह। सः दावं कृतवान् यत् राज्ये परिवर्तनं निश्चितम् अस्ति।

​उल्लेखनीयमस्ति यत् दिलीप घोषः २०१६ तमे वर्षे खड़गपुर-सदर-आसनात् विधायकः निर्वाचितः आसीत्। २०१९ तमे वर्षे सः अस्मात् आसनात् त्यागपत्रं दत्त्वा लोकसभा-निर्वाचनं लडितवान्, विजयं च प्राप्तवान्। किन्तु २०२४ तमे वर्षे सः मेदिनीपुरतः निष्कास्य 'बर्धमान-दुर्गापुर' आसनात् निर्वाचनं लडितः, यत्र तस्य पराजयः अभवत्। ततः परं सः पक्षे बहुशः निष्क्रियः जातः आसीत्। विगतवर्षेषु पक्षस्य अन्तः पुरातन-नूतननेतॄणां मध्ये सङ्घर्षकारणात् सः पार्श्वे (हाशिए पर) गतः आसीत्।

​कथ्यते यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः तथा च केन्द्रीयगृहमन्त्रिणः अमितशाहस्य कोलकाता-भ्रमणकाले अपि तस्मै मञ्चे स्थानं न प्राप्तम् आसीत्, येन सः सार्वजनिकरूपेण असन्तोषं प्रकटितवान् आसीत्।

​तथापि, २०२६ विधानसभा-निर्वाचनात् पूर्वं पक्षनेतृत्वेन पुनः एकवारं दिलीप घोषे विश्वासः प्रकटितः, तस्य प्रिय-आसनात् 'खड़गपुर सदर'तः तं रणक्षेत्रे अवतार्य राजनैतिक-समीकरणं परिवर्तयितुं प्रयासः कृतः।

---------------

हिन्दुस्थान समाचार