खड़गपुरासने दिलीप घोष एवं प्रदीप सरकार इत्येतौ समक्षम्
खड़गपुरम्, 18 मार्चमासः (हि. स.)।खड़गपुर नगरे अस्मिन् समये द्वयोः पूर्व विधायकयोः मध्ये स्पर्धा अतीव रोचकता प्राप्नोति। भारतीय जनता पार्टीया सोमवासरे एव दिलीप घोषः प्रत्याशी कृतः, यदा तृणमूल कांग्रेसया मङ्गलवासरे ‘बाडीर छेले’ (भूमिपुत्र) इति प्रसिद
प्रदीप सरकार और दिलीप घोष


खड़गपुरम्, 18 मार्चमासः (हि. स.)।खड़गपुर नगरे अस्मिन् समये द्वयोः पूर्व विधायकयोः मध्ये स्पर्धा अतीव रोचकता प्राप्नोति। भारतीय जनता पार्टीया सोमवासरे एव दिलीप घोषः प्रत्याशी कृतः, यदा तृणमूल कांग्रेसया मङ्गलवासरे ‘बाडीर छेले’ (भूमिपुत्र) इति प्रसिद्धः प्रदीप सरकार उर्फ खोकनः प्रत्याशी घोषितः। प्रत्याशित्वं प्राप्य एव प्रदीप सरकारः भाजपा विरुद्धं तीक्ष्णं वक्तव्यं कृत्वा उक्तवान् यत् दिलीप घोषः कश्चन विशेषः कारकः नास्ति।

२०१९ तमे वर्षे उपनिर्वाचने प्रदीप सरकारः भाजपा प्रत्याशिनं प्रेमचन्द झा इत्यं प्रायः २०००० मतैः पराजितवान्। किन्तु २०२१ तमे विधानसभा निर्वाचने सः भाजपा प्रत्याशिना हिरण्मय चटर्जी इत्यनेन प्रायः ३८०० मतैः पराजितः। तथापि तृणमूल कांग्रेस पुनरपि तस्मिन् विश्वासं कृतवती।

अन्यस्मिन् पक्षे दिलीप घोषः २०१६ तमे वर्षे खड़गपुर सदर क्षेत्रात् प्रथमवारं विजयम् अलभत। तस्मिन् समये सः राष्ट्रीय स्वयंसेवक संघ पृष्ठभूमेः नवमुखरूपेण प्रविष्टः, नूतनदलसहितः प्रबल ऊर्जया च विजयम् अलभत तथा सर्वेषां ध्यानं आकर्षितवान्। अनन्तरं २०१९ तमे लोकसभा निर्वाचने पश्चिम मेदिनीपुरात् सांसदत्वं प्राप्य स्वराजनीतिक स्थितिं सुदृढीकृतवान्। किन्तु २०२४ तमे लोकसभा निर्वाचने बर्धमान दुर्गापुर क्षेत्रात् पराजयं प्राप्तवान्।

अधुना खड़गपुरे दिलीप प्रदीपयोः प्रत्यक्षः संघर्षः दृश्यते। राजनैतिक विश्लेषकाः मन्यन्ते यत् एषः संघर्षः अतीव कष्टसाध्यः भवितुम् अर्हति। प्रदीपः स्वं ‘खड़गपुरस्य पुत्रः’ इति निर्दिश्य उक्तवान् यत् अत्रस्थाः जनाः स्वपुत्रमेव इच्छन्ति। सः अपि प्रश्नं कृतवान् यत् दिलीप घोषः क्षेत्रस्य विकासाय किं कृतवान्।

तथापि दिलीप घोषः अद्यापि प्रदीप सरकारस्य विषये प्रत्यक्षं न किञ्चित् आक्रमणं कृतवान्। सः केवलम् उक्तवान् यत् तृणमूल कांग्रेस स्वप्रत्याशिनं नियुक्तवती, किन्तु खड़गपुरस्य जनता भाजपा पक्षे अस्ति।

बुधवासरे प्रातःकालात् एव दिलीप घोषस्य खड़गपुरे बहवः कार्यक्रमाः निर्धारिताः सन्ति। सः नगरस्य प्रमुख मन्दिरेषु दर्शनं करिष्यति तथा स्वसहयोगिभिः सह सहभोजे अपि भागं ग्रहीष्यति। तस्य निवासस्थाने एतस्य आयोजनस्य सिद्धता कृता अस्ति, यतः अग्रिम निर्वाचन रणनीतिः अपि निर्धार्यते इति सूच्यते।

दिलीप घोषस्य सम्मुखे प्रदीप सरकारस्य प्रत्याशित्वस्य विषये भाजपा जनपद सदस्यः सुनील यांडा उक्तवान् यत् तृणमूल कांग्रेस स्वबलानुसारं दृढं प्रत्याशिनं नियुक्तवती, किन्तु मुख्यमन्त्रिणः विशेष समुदाय सम्बन्धित वक्तव्यस्य विषये सः प्रश्नं कृतवान् यत् किम् प्रदीप सरकारः तस्य समर्थनं करोति। सः उक्तवान् यत् खड़गपुरस्य हिन्दू समाजः प्रज्ञावान् अस्ति तथा आगामि निर्वाचने उत्तरं दास्यति।

अतः अधुना अस्मिन् निर्वाचन संघर्षे ‘स्थानीय प्रतिनिधिः’ विरुद्धं ‘दृढ नेता’ इति स्पर्धायां खड़गपुरस्य जनाः कं समर्थनं दास्यन्ति इति द्रष्टुं रोचकं भविष्यति।

---------------

हिन्दुस्थान समाचार