Enter your Email Address to subscribe to our newsletters

सारणजनपदः, १८ मार्चमासः (हि.स.)। जनपदस्य बॉक्सिंग–संघस्य तत्वावधानेन जनपद–स्तरीय–मुक्केबाजी–चयन–प्रक्रियायाः आयोजनं कृतम्। अस्यां स्पर्धायां जनपदस्य विभिन्न–प्रखण्डेभ्यः आगताः जूनियर–वर्गस्य बालकाः बालिकाः तथा युव–वर्गस्य अपि बालकाः बालिकाः च स्वीयां प्रतिभां प्रदर्शितवन्तः। चयन–प्रक्रियायां क्रीडकाणां मध्ये तीव्रः प्रतिस्पर्धा–भावः दृष्टः।
जनपद–संयुक्त–सचिवः दीपक–कुमार–सिंहः अवदत् यत् प्रदर्शनस्य आधारेण जूनियर–वर्गे कुणाल–कुमारः (५०–५२ किलोग्राम–भार–वर्गः), राहुल–रंजन–सिंहः (५२–५४ किलोग्राम–भार–वर्गः) तथा आर्यन–कुमारः (४६–४८ किलोग्राम–भार–वर्गः) उत्कृष्ट–प्रदर्शनस्य कारणेन चयनिताः।
चयनिताः सर्वे क्रीडकाः २२ तथा २३ मार्चमासयोः दरभङ्गानगरे आयोज्यमानायां राज्य–स्तरीय–मुक्केबाजी–प्रतियोगितायां सारण–जनपदस्य प्रतिनिधित्वं करिष्यन्ति।
अस्य आयोजनस्य सफल–सम्पादने सारण–बॉक्सिंग–संघस्य सचिवः सतीश–कुमार–सिंहः तथा जनपद–संयुक्त–सचिवः दीपक–कुमार–सिंहः प्रमुखां भूमिकां निर्वाहितवन्तौ। रिङ्गमध्ये अधिकृत–रूपेण खुशी–सिंहः, बाबुल–कुमारः तथा पवन–कुमारः निर्णायक–कर्तारः अभवन्।
संघस्य पदाधिकारिणः चयनितान् क्रीडकान् शुभाशंसाः दत्त्वा राज्य–स्तरे पदक–प्राप्तेः विश्वासं व्यक्तवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता