Enter your Email Address to subscribe to our newsletters

मण्डीनगरम्, १८ मार्चमासः (हि.स.)। मण्डी–जनपदस्य सराज–प्रदेशे स्थिते राजकीय–महाविद्यालये लम्बाथाचे षोडशतम: वार्षिक–पुरस्कार–वितरण–समारोहः महता उत्साहेन गरिमामय–वातावरणे च आयोजितः। अस्य कार्यक्रमस्य आयोजनं प्राचार्या, कर्मचारीवर्गः, पीटीए, ओएसए, सीएससीए तथा छात्राणां संयुक्त–सहयोगेन कृतम्।
अस्मिन् अवसरे मुख्यातिथिरूपेण प्रो.अनुपमा–सिंहः, पूर्व–कुलपतिः, सरदार–पटेल–विश्वविद्यालयस्य, मण्डी, उपस्थितवती। स्वीय–सम्बोधने तया छात्रान् जीवनमध्ये अनुशासनं कठोर–परिश्रमं सकारात्मक–चिन्तनं च स्वीकर्तुं प्रेरिताः।
तया विशेषतया महिला–सशक्तिकरणम्, युवा–विकासः, सामाजिक–उत्तरदायित्वम् इत्यादिषु महत्त्वपूर्ण–विषयेषु स्वविचाराः व्यक्ताः। समारोहस्य समये शैक्षणिक–क्रीडा–सांस्कृतिक–क्रियाकलापेषु उत्कृष्ट–प्रदर्शनं कृतवन्तः छात्राः पुरस्कारैः सम्मानिताः। मुख्यातिथिना तेषां उपलब्धिनां प्रशंसां कृत्वा तेषां उज्ज्वल–भविष्यस्य कामना अपि कृता।कार्यक्रमे रंगारङ्ग–सांस्कृतिक–प्रस्तुतयः अपि अभवन्, याभिः दर्शकानां मनांसि आकृष्टानि, यत्र स्थानीय–संस्कृतेः प्रतिभायाः च सुन्दर–दर्शनम् अभवत्।
महाविद्यालयस्य प्राचार्या प्रो.जया–ठाकुर: सर्वेषां अतिथिनां, अभिभावकानां तथा छात्राणां आभारं व्यक्तवती, उक्तवती च यत् एतादृशाः कार्यक्रमाः छात्राणां प्रगत्यै स्व–प्रतिभा–विकासाय च अवसरं प्रददति।
अस्मिन् अवसरे महाविद्यालयस्य समस्त–कर्मचारीवर्गः, डॉ.दलीपः, डॉ.कटारिया, डॉ.यामिनी, पीटीए–अध्यक्षः धनेश्वरी, पुष्पा–ठाकुर: तथा अन्ये स्थानीय–गणमान्य–जनाः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता