मध्यप्रदेशः- मुख्यमंत्री डॉ. यादवः अद्य हरदायां राज्य स्तरीयकृषकसम्मेलने सम्मेलिष्यति
- विकास कार्याणां करिष्यति लोकार्पणं भूमि पूजनं च भोपालम्, 18 मार्चमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ मोहन यादवः अद्य बुधवासरे हरदा जनपदे नेहरू स्टेडियमे आयोजिते कृषि आधारित कौशल विकास तथा कस्टम हायरिंग केन्द्रिते राज्य स्तरीये कृषकसम्
सीएम मोहन यादव (फाइल फोटो)


- विकास कार्याणां करिष्यति लोकार्पणं भूमि पूजनं च

भोपालम्, 18 मार्चमासः (हि.स.)।

मध्यप्रदेशस्य मुख्यमन्त्री डॉ मोहन यादवः अद्य बुधवासरे हरदा जनपदे नेहरू स्टेडियमे आयोजिते कृषि आधारित कौशल विकास तथा कस्टम हायरिंग केन्द्रिते राज्य स्तरीये कृषकसम्मेलन भागं ग्रहीष्यति। मुख्यमन्त्री अस्मिन् अवसरे जनपदे प्रवर्तमानानां विकास कार्याणां लोकार्पणं नूतन विकास कार्याणां भूमिपूजनं च करिष्यति।

जनसम्पर्क अधिकारी सुरेन्द्र तिवारी इत्यनेन उक्तं यत् मुख्यमन्त्री डॉ यादवः अस्मिन् कार्यक्रमे प्रायः ३२४८.७१ लक्ष रूप्यक मूल्यस्य पञ्च विकास कार्याणां भूमिपूजनं तथा प्रायः १९९७९.९७ लक्ष रूप्यक मूल्यस्य षट्त्रिंशत् विकास कार्याणां लोकार्पणं करिष्यति।

अतिरिक्ततया मुख्यमन्त्री डॉ यादवः शासनस्य विभिन्न योजनानां अन्तर्गतं लाभान्वित हितग्राहकेभ्यः हितलाभ वितरणं अपि करिष्यति।

---------------

हिन्दुस्थान समाचार