मंत्री प्रहलाद पटेलः अद्य नरसिंहपुर जिल्लायाः प्रवासे , विभिन्नेषु कार्यक्रमेषु सम्मेलिष्यते
भोपालम्, 18 मार्चमासः (हि.स.)। मध्यप्रदेशस्य पंचायत ग्रामीण विकास तथा श्रम मन्त्री प्रह्लाद सिंह पटेल अद्य बुधवासरे नरसिंहपुर जनपदस्य प्रवासे भविष्यति। अस्मिन् अवसरे सः कृषि उपज मण्ड्यां आयोजिते जिला स्तरीय कृषि विज्ञान मेले सहितं विविधेषु कार्यक
मंत्री प्रहलाद पटेल


भोपालम्, 18 मार्चमासः (हि.स.)।

मध्यप्रदेशस्य पंचायत ग्रामीण विकास तथा श्रम मन्त्री प्रह्लाद सिंह पटेल अद्य बुधवासरे नरसिंहपुर जनपदस्य प्रवासे भविष्यति। अस्मिन् अवसरे सः कृषि उपज मण्ड्यां आयोजिते जिला स्तरीय कृषि विज्ञान मेले सहितं विविधेषु कार्यक्रमेषु भागं ग्रहीष्यति।

प्रकाशित दौरा कार्यक्रमानुसारं मन्त्री प्रह्लाद पटेलः प्रातः १०:२० वादने करेली ब्लॉक अन्तर्गतां ग्राम पंचायत देवाकछारम् आगत्य तत्र नल जल योजनायाः लोकार्पणं करिष्यति। अनन्तरं सः प्रातः ११:२५ वादने ग्राम पंचायत कपूरीमध्ये १२७.०४ लक्ष रूप्यक मूल्येन खेदा नद्यां सेतु निर्माणस्य भूमिपूजनं करिष्यति।

ततः परं मन्त्री पटेलः मध्यान्हे १२:३० वादने मण्डी रोड नरसिंहपुर स्थिते मून लाइट गार्डन आगत्य मण्डल प्रशिक्षण वर्गस्य समापन सत्रे सम्मिलितः भविष्यति। अनन्तरं सः ०१:०५ वादने होटल मिनीएचर मध्ये पत्रकार वार्तां करिष्यति।

तत्पश्चात् सः ०२:२० वादने कृषि उपज मण्डी नरसिंहपुरे आयोजिते जिला स्तरीये आत्मा योजना अन्तर्गत कृषि विज्ञान मेले, मिलेट मिशन अन्तर्गत मिलेट मेले, दिव्याङ्गजनानां वृद्धजनानां च निःशुल्कं सहायक उपकरण वितरण कार्यक्रमे, राष्ट्रीय ग्राम स्वरोजगार अभियान अन्तर्गत निर्वाचित महिला जन प्रतिनिधीनां एक दिवसीय जिला स्तरीय सम्मेलने, विकसित भारत रोजगार आजीविका मिशन ग्रामीण सम्मेलन तथा जल गङ्गा संवर्धन अभियानस्य कार्यशालायां च सम्मिलितः भविष्यति।

---------------

हिन्दुस्थान समाचार