प्रधानमंत्रिणः इंदौरे अग्नेः घटनाविषये प्रकटितं दुःखं, मृतकानां परिजनेभ्यः 2 लक्षस्य क्षतिपूर्तिः घोषिता
नव दिल्ली, 18 मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी बुधवासरे मध्यप्रदेशस्य इन्दौरनगरे जातायाः अग्निदुर्घटनायाः विषये गहनं दुःखं व्यक्तवान् तथा मृतकानां परिजनेभ्यः द्विलक्षरूप्यकाणां मुआवजस्य घोषणां कृतवान्। प्रधानमन्त्रीकार्यालयेन सामाजिक
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


नव दिल्ली, 18 मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी बुधवासरे मध्यप्रदेशस्य इन्दौरनगरे जातायाः अग्निदुर्घटनायाः विषये गहनं दुःखं व्यक्तवान् तथा मृतकानां परिजनेभ्यः द्विलक्षरूप्यकाणां मुआवजस्य घोषणां कृतवान्।

प्रधानमन्त्रीकार्यालयेन सामाजिकमाध्यमे ‘एक्स’ इति माध्यमे प्रकाशिते सन्देशे प्रधानमन्त्री उक्तवान् यत् मध्यप्रदेशस्य इन्दौरनगरे अग्निदुर्घटनायां जातया जनधनहान्या सः अत्यन्तं दुःखितः। तेन शोकसन्तप्तपरिवाराणां प्रति संवेदना प्रकटिता तथा घायितानां शीघ्रस्वास्थ्यलाभस्य कामना कृता।

प्रधानमन्त्री घोषितवान् यत् मृतकानां परिजनेभ्यः प्रधानमन्त्रिराष्ट्रियराहतनिधेः प्रत्येकं द्विलक्षरूप्यकाणां अनुग्रहधनं प्रदास्यते, तथा घायितेभ्यः प्रत्येकं पञ्चाशत्सहस्ररूप्यकाणां सहायता दास्यते।

उल्लेखनीयम् यत् मध्यप्रदेशस्य इन्दौरनगरे अद्य प्रातः लगभग चतुर्वादने एकस्मिन् गृहे विद्युत्चालितवाहनस्य आवेशनकाले उत्पन्नेन शॉर्टसर्किट्-दोषेन अग्निदुर्घटना जाता, यस्मिन् षट् जनाः जीवितावस्थायामेव दग्धाः, त्रयः अन्ये च गम्भीरतया आहताः सन्ति।

------------

हिन्दुस्थान समाचार