Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 18 मार्चमासः (हि.स.)। पूर्वकेन्द्रीयमन्त्री साध्वी निरंजन ज्योति राष्ट्रियपृष्ठवर्तिवर्गआयोगस्य अध्यक्षपदे नियुक्ता अभवत्। बुधवासरे सा नवीदिल्लीस्थितस्य राष्ट्रीयपिछडावर्गआयोगस्य कार्यालयं गत्वा स्वपदभारं ग्रहणवती।
साध्वी निरंजन ज्योति अद्य पदग्रहणस्य छायाचित्रं सामाजिकमाध्यमे सञ्चिक्य लिखितवती यत्— “पृष्ठवर्तिसमाजस्य सम्मानस्य, अधिकाररक्षणस्य तथा तेषां समग्रविकासस्य कृते समर्पितं एतत् दायित्वं दत्त्वा राष्ट्रपति द्रौपदी मुर्मू तथा प्रधानमन्त्री नरेन्द्र मोदी इत्येतयोः प्रति मम हृदयपूर्णः आभारः।”
अनन्तरं सा लिखितवती यत् राष्ट्रियपृष्ठवर्तिवर्गआयोगस्य एषः संकल्पः अस्ति यत् पिछडसमाजाय न्यायः, सुरक्षा, सम्मानः तथा विकासस्य समानाः अवसराः प्राप्येरन्। अस्यैव भावनया आयोगः कार्यं कर्तुं प्रतिबद्धः अस्ति। पूर्णप्रतिबद्धतया, पारदर्शितया संवेदनशीलतया च सह पिछडवर्गस्य चतुर्दिकम्उत्थानाय स्वदायित्वस्य निर्वहनं अस्माकं ध्येयम् अस्ति।
हिन्दुस्थान समाचार