नव–अधिष्ठापितस्य ओपन–जिम-इत्यस्य उद्घाटनम्
समस्तीपुरम्, १८ मार्चमासः (हि.स.)। मुख्यमन्त्री–क्रीडा–विकास–योजनायाः अन्तर्गतं कारा–कर्मचारिणां कृते कारा–परिसरे नव–अधिष्ठापितस्य ओपन–जिम-इत्यस्य उद्घाटनम् कृतम्। ओपन–जिम-इत्यस्य विधिवत् उद्घाटनस्य अनन्तरं जनपदाधिकारी–समस्तीपुरस्य अध्यक्षतायां मण
Open gym


Open gym


Baithak me upastith adhikari


Udhghatan karte DM


Udhaghatan karte


समस्तीपुरम्, १८ मार्चमासः (हि.स.)। मुख्यमन्त्री–क्रीडा–विकास–योजनायाः अन्तर्गतं कारा–कर्मचारिणां कृते कारा–परिसरे नव–अधिष्ठापितस्य ओपन–जिम-इत्यस्य उद्घाटनम् कृतम्।

ओपन–जिम-इत्यस्य विधिवत् उद्घाटनस्य अनन्तरं जनपदाधिकारी–समस्तीपुरस्य अध्यक्षतायां मण्डल–कारागारे समस्तीपुरे अन्तः बन्दी–दरबारस्य आयोजनम् अभवत्। अस्मिन् बन्दी–दरबारे आरक्षक–अधीक्षकस्य प्रतिनिधिरूपेण आरक्षक–उपाधीक्षकः (रक्षितः) नरेन्द्र–शर्मा, आरक्षक–केन्द्र–समस्तीपुरात्, काराधीक्षकः प्रशान्त–कुमार–ओझा, प्रभारी–उपाधीक्षकः मनोज–कुमार–सिंहः, सहायक–अधीक्षिका प्रेरणा–पटेल:, कञ्चन–कुमारी च अन्ये कारा–सुरक्षा–कर्मिणः तथा कारागारे निरुद्धाः बन्दिनः उपस्थिताः आसन्।

प्रथमं काराधीक्षकः प्रशान्त–कुमार–ओझा जनपदाधिकारिणं पादपेन सम्मानितवान्। ततः जनपदाधिकारिणा बन्दी–दरबारे उपस्थितानां सर्वेषां बन्दिनां व्यक्तिगत–सामूहिक–समस्याः, विचाराश्च पृष्टा:। बन्दिभिः विद्युत्–आपूर्तेः व्यवधानस्य कारणेन जल–उपलब्धये षट् चापाकल–स्थापनस्य तथा उष्णताया: निवारणाय वाटर–कूलर–प्रदानस्य कृते लिखित–निवेदनं दत्तम्।

जिलाधिकारिणा बन्दिनः आश्वासिताः यत् बन्दि–हिताय चापाकलाः तथा वाटर–कूलर-इत्यादय: शीघ्रमेव उपलप्स्यन्ते। तेन उक्तं यत् विद्युत्–आपूर्तेः कृते सौर–ऊर्जा–उपकरण–स्थापनाय सम्बन्धित–विभागाः यथा ब्रेडा इत्यादयः निर्देशिताः भविष्यन्ति, नूतन–जनित्र–क्रयणार्थं च विभागाय अनुशंसा प्रेष्यते। तेन काराधीक्षकाय अपि निर्देशः दत्तः यत् अस्य विषयस्य सम्बन्धे विभागेन सह शीघ्रं पत्राचारः क्रियताम्। केचन बन्दिनः स्वकीय–पारिवारिक–भूमि–समस्यासु समाधानार्थं निवेदनानि अपि समर्पितवन्तः।

जनपदाधिकारिणा सर्वेभ्यः समुचित–कार्यवाह्याः आश्वासनं दत्तम्। सः बन्दिनः सम्बोध्य अवदत् यत् कारा–व्यवस्था सुधारस्य दिशि प्रगतिशीला अस्ति, बन्दिनां समस्याः न्यूनकर्तुं सर्वथा प्रयासः क्रियते। सः बन्दिनः नकारात्मक–चिन्तनात् उन्नत्य रचनात्मक–कार्येषु यथा कारागारे प्रवर्तमाने मिथिला–चित्रकला–प्रशिक्षणे तथा अन्येषु शैक्षणिक–प्रशिक्षणेषु उत्साहेन सहभागितां कर्तुं प्रेरितवान्, येन ते कारामुक्तेः अनन्तरं स्वावलम्बिनः भूत्वा स्वजीविकां स्थापयितुं शक्नुयुः।

अन्ते तेन सर्वान् बन्दिनः व्यवसायिक–प्रशिक्षणेषु सक्रियतया भागं ग्रहीतुं प्रेरितवन्तः। अन्यस्य कस्यचित् समस्यायाः अभावे काराधीक्षकेण जनपदाधिकारिणे मिथिला–चित्रकलायाः प्रतीक–चिह्नं समर्प्य बन्दी–दरबारस्य समापनम् अभवत्।

हिन्दुस्थान समाचार / अंशु गुप्ता