Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 18 मार्चमासः (हि.स.)।
दिल्लीनगरस्य पालमप्रदेशे बहुमञ्जिलाभवने अग्निदुर्घटना जाता, तस्याः अन्वेषणार्थं मुख्यमन्त्री रेखा गुप्ता मजिस्ट्रेटद्वारा जाँचायाः आदेशान् दत्तवती। घटनास्थले अग्नेः नियन्त्रणार्थं प्रयत्नाः अद्यापि प्रचलन्ति। अस्मिन् अग्निकाण्डे सप्त जनाः मृताः, येषु कतिपये बालकाः अपि सन्ति।
मुख्यमन्त्री ‘एक्स’ इति सामाजिकमाध्यमे लिखितवती यत् पालमस्थिते बहुमञ्जिलावासीयभवने घटितं भीषणम् अग्निकाण्डं ज्ञात्वा सा अत्यन्तं दुःखिता अभवत्। जिला प्रशासनम्, दिल्ली अग्निशमनविभागः तथा दिल्ली पुलिसः उद्धारकार्ये संलग्नाः सन्ति। सा उक्तवती यत् अस्य घटनायाः अन्वेषणार्थं मजिस्ट्रेटजाँचायाः आदेशाः प्रदत्ताः।
दिल्ली अग्निशमनसेवा (डीएफएस) इत्यस्मै पालम मेट्रोस्थानकस्य समीपे स्थितस्य एकस्मात् गृहतः प्रातः लगभग सप्तवादने अग्निलग्नस्य सूचना प्राप्ता। ततः अनन्तरं त्रिंशत् दमकलयानैः सह विशालः अग्निशमनउद्धारअभियानस्य आरब्धम्।
---------------
हिन्दुस्थान समाचार