Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 18 मार्चमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र मोदी बुधवासरे अप्रैलमासात् जुलाईमासपर्यन्तं निवृत्तिं गच्छन्तः राज्यसभायाः ५९ सदस्याः अभिनन्द्य अवदत् यत् राजनीतिक्षेत्रे कदापि “पूर्णविरामः” न भवति तथा जनसेवायाः कार्यं सदनात् बहिः अपि निरन्तरं प्रवर्तते। तेन उक्तं यत् संसद् केवलं विधिनिर्माणस्य मंचः न, अपि तु “उन्मुक्तविश्वविद्यालयः” इव अस्ति, यत्र प्रत्येकसदस्याय शिक्षणस्य, विचारविनिमयस्य, स्वविकासस्य च अवसरः लभ्यते।
राज्यसभायां आयोजिते विदायसमारोहे सम्बोधयन् प्रधानमन्त्री अवदत् यत् विविधविषयेषु भवन्ति चर्चाः, तासु प्रत्येकसदस्यस्य महत्त्वपूर्णं योगदानम् अस्ति। तेन स्वीक्रियते स्म यत् कार्यकाले कटुमधुरानुभवाः अपि भवन्ति, किन्तु विदायसमये सर्वे दलभेदान् अतिक्रम्य समानभावेन भावनां प्रकटयन्ति।
प्रधानमन्त्री अवदत् यत् केचन सदस्याः भविष्ये पुनः सदनं प्रत्यागन्तुं शक्नुवन्ति, अन्ये तु स्वानुभवानां आधारेण सामाजिकजीवने नूतनयोगदानस्य दिशि अग्रे सरिष्यन्ति। तेन उक्तम्— “ये सदस्याः गच्छन्ति, तान् प्रति मम वचनम् अस्ति यत् राजनीतौ कश्चन फुलस्टॉप् नास्ति। भविष्यं भवतः प्रतीक्षते तथा भवतां अनुभवः राष्ट्रजीवने सदा उपयोगी भविष्यति।”
स्वीयसम्बोधने प्रधानमन्त्री एच.डी. देवगौडा, मल्लिकार्जुन खरगे, शरद पवार इत्यादीनां वरिष्ठनेतानां योगदानम् विशेषतया उल्लेखितवान्। तेन उक्तं यत् दीर्घसंसदीयानुभवयुक्तेभ्यः नेतृभ्यः नवपीढ्या बहु किञ्चित् शिक्षणीयम् अस्ति। एते नेतारः स्वजीवनस्य महत् भागं संसदीयकार्यप्रणाल्यै समर्पितवन्तः, तेषां अनुभवः लोकतन्त्रव्यवस्थां सुदृढीकर्तुं महत्त्वपूर्णं कार्यं करोति।
प्रधानमन्त्री राज्यसभायाः उपसभापतिं हरिवंशं प्रशंसन् तम् मृदुभाषिणं कुशलसंचालकं च अवदत्। तेन उक्तं यत् सदनस्य सुचारुरूपेण संचालनार्थं तस्य भूमिका प्रशंसनीया आसीत्। सहैव तेन उल्लेखितं यत् हरिवंशः सदनात् बहिः अपि युवकेषु सक्रियः अस्ति तथा तान् देशस्य परिस्थितिभिः अवगतं करोति।
अस्मिन् सन्दर्भे प्रधानमन्त्री रामदास अठावले इत्यस्य हास्यव्यंग्यपूर्णशैल्याः अपि उल्लेखं कृतवान्। तेन उक्तं यत् अद्यतनकाले २४x७ माध्यमप्रभावेन सदने हास्यविनोदस्य अवसराः न्यूनाः जाताः, तथापि अठावले स्वशैलया वातावरणं सरलम् आनन्ददायकं च करोति तथा जनान् संयोजयति।
प्रधानमन्त्री संसदीयप्रणाल्याम् “द्वितीयमत” इति अवधारणां लोकतन्त्रस्य महान् शक्तिः इति अभिहितवान्। तेन उक्तं यत् एकस्मिन् सदने स्वीकृताः निर्णयाः अन्यस्मिन् सदने पुनर्विचारार्थं गच्छन्ति, येन निर्णयप्रक्रिया अधिका समृद्धा व्यापकाः च भवन्ति। एषा व्यवस्था लोकतान्त्रिकसन्तुलनं धारयितुं सहायिका भवति।
तेन उक्तं यत् प्रतिद्विवर्षं राज्यसभायाः बहुसंख्यकसदस्यानां कार्यकालः समाप्तिं गच्छति, किन्तु एषा प्रक्रिया निरन्तरं प्रवर्तते। नूतनसदस्याः पुरातनसदस्यानां अनुभवानां लाभं प्राप्नुवन्ति, येन सदनस्य कार्यप्रणाल्यां निरन्तरता तिष्ठति। प्रधानमन्त्री विश्वासं व्यक्तवान् यत् ये सदस्याः अधुना अवशिष्टाः, ते नवसांसदानां मार्गदर्शनं करिष्यन्ति तथा संस्थां अधिकं सुदृढां करिष्यन्ति।
प्रधानमन्त्री एतत् अपि उक्तवान् यत् विदायं गच्छन्तः अनेकाः सांसदाः प्राचीननूतनयोः उभयोः संसद्भवनयोः कार्यं कर्तुं अवसरं प्राप्तवन्तः, यत् तेषां सार्वजनिकजीवने विशेषेण स्मरणीयानुभवः भविष्यति। नूतनसंसद्भवननिर्माणे तस्य कार्यप्रणाल्यां च सहभागिता तेषां कृते महत्त्वपूर्णस्मृतिरूपेण स्थास्यति।
अन्ते प्रधानमन्त्री उक्तवान् यत् संसदि व्यतीतानि षड्वर्षाणि कस्यापि सदस्यस्य जीवननिर्माणे महत्त्वपूर्णं योगदानं ददाति। एतत् केवलं निर्णयप्रक्रियायाः अंशः न, अपि तु व्यक्तित्वविकासस्य राष्ट्रदृष्टेः विस्तारस्य च माध्यमम् अस्ति।
तेन विदायं गच्छद्भ्यः सर्वेभ्यः सांसदेभ्यः शुभाशंसाः प्रदत्ताः तथा उक्तं यत् तेषां अनुभवः राष्ट्रनिर्माणे भविष्ये अपि उपयोगी भविष्यति। प्रधानमन्त्री सर्वेषां सदस्याणां योगदानस्य प्रशंसां कृत्वा तान् धन्यवादं दत्तवान् तथा तेषां उज्ज्वलभविष्यस्य कामनां कृतवान्।
---------------
हिन्दुस्थान समाचार