प्रधानमंत्री संस्कृत सुभाषितं कृत्वा देशाय बोधितवान् साहसस्य वीरतायाः महत्वं च
नवदिल्ली, 18 मार्चमासः (हि.स.)। नरेंद्रमोदी बुधवासरे संस्कृतसुभाषितं साझा कृत्वा साहसस्य वीरतायाश्च महत्त्वं राष्ट्राय अवेदयत्। सः उक्तवान् यत् साहसी पुरुषः स्वपराक्रमेण सम्पूर्णं विश्वं प्रभावितुं शक्नोति। प्रधानमन्त्रिणा X माध्यमेन उक्तं यत् वी
पंतप्रधान नरेंद्र मोदी


नवदिल्ली, 18 मार्चमासः (हि.स.)। नरेंद्रमोदी बुधवासरे संस्कृतसुभाषितं साझा कृत्वा साहसस्य वीरतायाश्च महत्त्वं राष्ट्राय अवेदयत्। सः उक्तवान् यत् साहसी पुरुषः स्वपराक्रमेण सम्पूर्णं विश्वं प्रभावितुं शक्नोति।

प्रधानमन्त्रिणा X माध्यमेन उक्तं यत् वीरता पराक्रमश्च एतादृशी पूंजी अस्ति, यया सर्वाः कठिनताः सम्मुखीकर्तुं शक्यन्ते। तेन उक्तं यत् भारतस्य युवानां साहसम् आत्मविश्वासश्च अस्य भावस्य प्रेरणां ददाति।

प्रधानमन्त्रिणा संस्कृतसुभाषितमपि साझा कृतम्—

“एकेनापि हि शूरेण पादाक्रान्तं महीतलम्।

क्रियते भास्करेणेव स्फारस्फुरिततेजसा॥”

अस्य सुभाषितस्य अर्थः अस्ति यत् यथा भास्करः स्वतेजस्विभिः किरणैः सम्पूर्णां पृथ्वीं प्रकाशितवान्, तथैव एकः साहसी पराक्रमी च पुरुषः स्वतेजसा साहसेन कर्मभिश्च सम्पूर्णं विश्वं प्रभावितुं शक्नोति।

---------------

हिन्दुस्थान समाचार