गुरु वाहनानां कलेवर निर्माता संघस्य प्रतिनिधिभिः सह राहुल-प्रियंके गडकरिणा अकुरुतां मेलनम्
नव दिल्ली, 18 मार्चमासः (हि.स.)।काङ्ग्रेसपक्षस्य पूर्वाध्यक्षः तथा लोकसभायां विपक्षनेता राहुल गांधी, पक्षस्य महासचिवा प्रियंका गांधी वाड्रा च बुधवासरे संसद्भवनपरिसरे स्थिते कार्यालये राजस्थानप्रदेशस्य लघु-ट्रक् तथा बस-शरीरनिर्मातृसंघस्य प्रतिनिधिभि
संसद भवन में केंद्रीय सड़क परिवहन एवं राजमार्ग मंत्री नितिन गडकरी से मुलाकात के दौरान छोटे ट्रक और बस बॉडी निर्माताओं की चिंताओं को सुनते हुए लोकसभा में नेता प्रतिपक्ष राहुल गांधी और कांग्रेस महासचिव प्रियंका गांधी


लोकसभा में नेता प्रतिपक्ष राहुल गांधी से राजस्थान के ट्रक व बस बॉडी निर्माताओं के प्रतिनिधि संसद भवन में मुलाकात करते हुए


नव दिल्ली, 18 मार्चमासः (हि.स.)।काङ्ग्रेसपक्षस्य पूर्वाध्यक्षः तथा लोकसभायां विपक्षनेता राहुल गांधी, पक्षस्य महासचिवा प्रियंका गांधी वाड्रा च बुधवासरे संसद्भवनपरिसरे स्थिते कार्यालये राजस्थानप्रदेशस्य लघु-ट्रक् तथा बस-शरीरनिर्मातृसंघस्य प्रतिनिधिभिः सह तेषां समस्याः विषये केन्द्रीयसड़कपरिवहनमार्गमन्त्री नितिन गडकरी इत्यनेन सह मिलितवन्तौ।

सूत्राणि अवदन् यत् अस्मिन् समागमे निर्मातृसंघेन शासनद्वारा निर्धारितानां नवीनमानकानां तथा अत्यधिकशुल्कानां विषये चिन्ता व्यक्ता। प्रतिनिधयः अवदन् यत् एते नियमाः शुल्कानि च कारणत्वेन अनेकानां लघुनिर्मातृणां कार्यं स्थगितप्रायं जातम्, येन लक्षाधिकपरिवाराणां आजीविका प्रभावितुं शक्नोति।

बैठके गडकरी उक्तवान् यत् बस-शरीरनिर्मातृणां मध्ये अनेकाः नियमपालनं न कुर्वन्ति। केचन निर्मातारः एवं शरीरनिर्माणं कुर्वन्ति यत् अग्निदुर्घटनायां यात्रिकाणां निर्गमनमार्गः न भवति। स्लीपरबसु अग्निघटनानां अनन्तरं केन्द्रीयसर्वकारेण सुरक्षां दृष्ट्वा नूतनमानकाः निर्धारिताः, येषां पालनम् अनिवार्यम् अस्ति।

गडकरी उक्तवान् यत् सरकारः लघुनिर्मातृणां चिन्तासु विचारं करिष्यति तथा समाधानस्य दिशि कार्यं करिष्यति।

-----------

हिन्दुस्थान समाचार