Enter your Email Address to subscribe to our newsletters

रीवा, १८ मार्चमासः (हि.स.)। मध्य प्रदेशस्य रीवानगरे 'युवासङ्गम' कार्यक्रमस्य अन्तर्गतं संभागीय आईटीआई मध्ये अद्य बुधवासरे प्रातः ११ वादनात् अपराह्ण २ वादनपर्यन्तं कश्चन विशालः रोजगारमेला आयोजितः अस्ति। अस्मिन् जिल्लायाः बेरोजगारयुवक-युवतीभ्यः विविधासु कम्पनीषु उद्योगस्य अवसराः प्रदास्यन्ते।
रोजगार उपसञ्चालकः अनिलदुबे उक्तवान् यत् अस्मिन् रोजगारमेलायां १६ कम्पनीभिः यूनां चयनं करिष्यते। मेलायां सम्मिलितुं पृथक्-पृथक् कम्पनीषु युवक-युवतीनां कृते आयुसीमा तथा च शैक्षणिकयोग्यता अपि भिन्ना निर्धारिता अस्ति। अष्टम-दशम-द्वादश कक्षाः, स्नातक-स्नातकोत्तर-एमबीए-आईटीआई-यान्त्रिक अभियान्त्रिकी (डिप्लोमा), तथा च बीई (मैकेनिकल एवं इलेक्ट्रिकल) उत्तीर्णाः यूवानः अत्र योग्याः भविष्यन्ति, येषां कृते विविधासु कम्पनीषु वेतनं भक्ताश्च ७००० रूप्यकेभ्यः ३५००० रूप्यकपर्यन्तं निर्धारितम् अस्ति। युभिः सह मूल-अङ्कतालिकायाः तथा च निवासप्रमाणपत्रस्य छायाप्रतिः, आधारपत्रं वा मतदाता परिचयपत्रं, रोजगारकार्यालयस्य जीवित-पञ्जीकरणं तथा च नूतनं पासपोर्ट-आकारस्य चित्रद्वयं (छायाचित्रं) आनेतव्यम् अनिवार्यं भविष्यति।
रोजगार उपसञ्चालकः दुबे सूचितवान् यत् अस्मिन् मेकायां फ्लैश ईवी प्लाण्ट सावरदारी चाकन, फ्लैश इलेक्ट्रॉनिक्स एचपी चौक चाकन, टेनेको फेडरल म्हालुंगे चाकन, सीएनएच न्यू हॉलैण्ड प्लाण्ट चाकन, महिन्द्रा एण्ड महिन्द्रा लि. पीथमपुरम्, टेनेको क्लीन एयर इण्डिया लि. पीथमपुरम्, धूत ट्रांसमिशन लि. पीथमपुरम्, मद्रास रबर फैक्ट्री दहेज गुजरातम्, मदरसन ऑटोमोटिव टेक्नोलॉजी इंजीनियरिंग सानन्द गुजरातम्, एण्डयोरेंस सानन्द गुजरातम्, मदरसन ग्रुप नोएडा, कमिंस इण्डिया प्रा.लि. पुणे, जिन्दल साउथ वेस्ट संभाजी नगरम्, चैतन्या इण्डिया फिन केडिट प्रा.लि. रीवा, सीआईआई-एमसीसी गुजरातम् तथा च मिग्मा पैकट्रॉन प्रा.लि. इन्दौरम् इति एतासु कम्पनीषु रोजगारस्य अवसराः उपलब्धाः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता