जैव उर्वरकम्-सततकृषये औद्योगिक स्टार्टअपाय च कुञ्जिका - प्रो. ऋचाटण्डन
प्रयागराज, 18 मार्चमासः (हि.स)। जैव उर्वरकाणि सतत-टिकाऊ-कृषये कश्चन प्रमुखः घटकः सन्ति, यानि रासायनिक-उर्वरकैः विना मृत्तिकायाः उर्वरतां फसलस्य उत्पादकतां च वर्धयन्ति। एतानि वचनानि ईश्वर शरण डिग्री महाविद्यालयः, प्रयागराजस्य वनस्पति विज्ञान विभागे
प्रो डॉ ऋचा टंडन


प्रयागराज, 18 मार्चमासः (हि.स)।

जैव उर्वरकाणि सतत-टिकाऊ-कृषये कश्चन प्रमुखः घटकः सन्ति, यानि रासायनिक-उर्वरकैः विना मृत्तिकायाः उर्वरतां फसलस्य उत्पादकतां च वर्धयन्ति। एतानि वचनानि ईश्वर शरण डिग्री महाविद्यालयः, प्रयागराजस्य वनस्पति विज्ञान विभागेन तथा आईक्यूएसी (IQAC) इत्यस्य तत्वावधाने आयोजिते कार्यक्रमे एस. एस. खन्ना गर्ल्स पीजी महाविद्यालयस्य सहायक-प्राध्यापिका डॉ. ऋचा टण्डन उक्तवती।

​बुधवासरे आयोजिते व्याख्याने मुख्य-अतिथिरूपेण सा अवदत् यत् जैव उर्वरकाणि सूक्ष्मजीवैः यथा कवक-जीवाणु-शैवालादिभिः निर्मितानि भवन्ति। ऊषरभूमिं उर्वराकर्तुं जैवउर्वरकाणां महत्त्वपूर्णं स्थानमस्ति। एतानि प्रायः २०-३० प्रतिशतं यावत् उत्पादकतां वर्धयन्ति, पर्यावरणस्य अनुकूलानि च सन्ति। भारते जैविक-कृष्या उत्तमः व्यवसायः आरब्धः अस्ति। अस्य उपयोगेन १५० प्रतिशतं यावत् लाभः (रिटर्न) प्राप्तुं शक्यते। अस्मिन् उपयुज्यमानानां कवकानां, शैवालानां च विस्तृतं ज्ञानं भवेत्।

​महाविद्यालयस्य पीआरओ डॉ. मनोज कुमार दुबे सूचितवान् यत् कार्यक्रमस्य अध्यक्षता महाविद्यालयस्य प्राचार्येण प्रो. आनन्द शंकर सिंहेन कृता। स्वागतं वनस्पति विज्ञान विभागस्य सहायक-आचार्या डॉ. सरोज पाण्डेय तथा च सञ्चालनं सोनाली शुक्ला अकरोत्। अस्मिन् अवसरे आईक्यूएसी-संयोजिका प्रो. अनुजा सलूजा, विभागाध्यक्षा डॉ. जया त्रिपाठी, डॉ. राजेश वर्मा, अनु सरोज, डॉ. संजीव कुमार इत्यादयः उपस्थिताः आसन्।

हिन्दुस्थान समाचार