काशीहिंदुविश्वविद्यालयस्य द्वौ संकाय सदस्यौ उत्तर प्रदेश संगीत नाटक अकादमी पुरस्काराय चयनितः
वाराणसी,19 मार्चमासः (हि.स.)। वाराणसी स्थित काशी हिन्दू विश्वविद्यालयस्य संगीत मञ्चकला संकायस्य द्वौ सदस्यौ प्रो राजेश शाह तथा डॉ रमाशंकर संगीत कला क्षेत्रे उत्तर प्रदेश संगीत नाटक अकादमी सम्मानार्थं चयनितौ स्तः। एषा सूचना विश्वविद्यालयस्य जनसम्प
डॉ. रमाशंकर


प्रो. राजेश शाह


वाराणसी,19 मार्चमासः (हि.स.)।

वाराणसी स्थित काशी हिन्दू विश्वविद्यालयस्य संगीत मञ्चकला संकायस्य द्वौ सदस्यौ प्रो राजेश शाह तथा डॉ रमाशंकर संगीत कला क्षेत्रे उत्तर प्रदेश संगीत नाटक अकादमी सम्मानार्थं चयनितौ स्तः। एषा सूचना विश्वविद्यालयस्य जनसम्पर्क कार्यालयेन प्रदत्ता।

उक्तं यत् वाद्य विभागस्य विभागाध्यक्षः प्रसिद्धः सितारवादकः प्रो राजेश शाह वर्ष २०२४ कृते उत्तर प्रदेश संगीत नाटक अकादमी पुरस्काराय चयनितः। सः आकाशवाणी दूरदर्शनयोः ‘ए’ श्रेणी कलाकारः अस्ति तथा अनेकेषु राष्ट्रीय अन्तरराष्ट्रीय मञ्चेषु भारतीय शास्त्रीय संगीतस्य प्रस्तुत्या देशस्य प्रतिनिधित्वं कृतवान्।

तथैव गायन विभागे सह आचार्यः डॉ रमाशंकर वर्ष २०२३ कृते उत्तर प्रदेश संगीत नाटक अकादमी पुरस्कारेन सम्मानितः। सः प्रसिद्धः हिन्दुस्तानी शास्त्रीय गायकः अस्ति, यः स्वस्य समृद्ध गायन कौशलस्य शिक्षण निष्ठायाश्च कारणेन प्रसिद्धः। सः अपि आकाशवाणी दूरदर्शनयोः ‘ए’ श्रेणी कलाकारः अस्ति तथा भारते विदेशेषु च बहुषु स्थलेषु स्व प्रस्तुतयः दत्तवान्।

कुलपतिः प्रो अजित कुमार चतुर्वेदी एतयोः प्रो राजेश शाह तथा डॉ रमाशंकर इत्येतयोः पुरस्कार प्राप्तौ अभिनन्दनं कृतवान्। तेन उक्तं यत् एताः उपलब्धयः न केवलं व्यक्तिगत उत्कृष्टतायाः सम्मानं कुर्वन्ति, अपि तु भारतीय शास्त्रीय कलानां संरक्षण संवर्धनयोः संस्थानस्य दीर्घकालीन योगदानं अपि सुदृढीकुर्वन्ति।

संगीत मञ्चकला संकायस्य प्रमुखा प्रो संगीता पण्डित अपि उभयोः कलाकारयोः उल्लेखनीय उपलब्धीनां कृते अभिनन्दनं कृतवती।

---------------

हिन्दुस्थान समाचार