Enter your Email Address to subscribe to our newsletters

पटना, 18 मार्चमासः (हि.स.)।
बिहारस्य मुख्यमन्त्री नीतीश कुमार “समृद्धि यात्रा” इत्यस्य स्वदौरस्य अन्तर्गतं जमुई तथा नवादा जनपदयोः कोटिशः रूप्यक मूल्याणां विकास योजनानां प्रदाने करिष्यति। अस्मिन् अवसरे सः विभिन्न योजनानां उद्घाटनं शिलान्यासं च करिष्यति, अपि च जनपदयोः प्रवर्तमानानां विकासात्मक कल्याणकारी योजनानां समीक्षां करिष्यति तथा जनसंवाद कार्यक्रमे अपि भागं ग्रहीष्यति।
जमुई जनपदे मुख्यमन्त्री ६०२ कोटि रूप्यक व्ययेन १८१ योजनानां उद्घाटनं करिष्यति तथा ३१२ कोटि रूप्यक व्ययेन १८९ योजनानां शिलान्यासं करिष्यति। अस्मिन् अवसरे सः जनपदे प्रवर्तमानानां विकास योजनानां प्रगतिं समीक्ष्य अधिकारिभ्यः आवश्यकान् निर्देशान् दास्यति तथा सामान्य जनैः सह संवादं करिष्यति।
अतिरिक्ततया नवादा जनपदे मुख्यमन्त्री ५५ कोटि रूप्यक व्ययेन ३७ योजनानां उद्घाटनं तथा २४४ कोटि रूप्यक व्ययेन २१ योजनानां शिलान्यासं करिष्यति। अत्रापि सः विभिन्न कल्याणकारी योजनानां कार्यान्वयनस्य समीक्षां कृत्वा जनसंवाद कार्यक्रमस्य माध्यमेन स्थानीय जनैः सह प्रत्यक्ष संवादं स्थापयिष्यति।
---------------
हिन्दुस्थान समाचार