चंपावते आपदा प्रबंधनम् आधृत्य मॉक ड्रिल आयोजितम्
चंपावतम्, 18 मार्चमासः (हि.स.)। जिलायां आपदाप्रबन्धनस्य सज्जतायाः मूल्याङ्कनार्थं बुधवासरे व्यापकः मॉक ड्रिल कार्यक्रमः आयोजितः। अस्मिन् अवसरे भूस्खलन बाढा वनाग्नि वन्यजीव आक्रमणादिषु विभिन्नासु आपदासु स्थितिषु प्रतिकारस्य पूर्वाभ्यासः कृतः। मॉक ड
भूस्खलन और बाढ़ जैसी आपदाओं का पूर्वाभ्यास करते हुए बचाव टीम।


चंपावतम्, 18 मार्चमासः (हि.स.)। जिलायां आपदाप्रबन्धनस्य सज्जतायाः मूल्याङ्कनार्थं बुधवासरे व्यापकः मॉक ड्रिल कार्यक्रमः आयोजितः। अस्मिन् अवसरे भूस्खलन बाढा वनाग्नि वन्यजीव आक्रमणादिषु विभिन्नासु आपदासु स्थितिषु प्रतिकारस्य पूर्वाभ्यासः कृतः।

मॉक ड्रिल अन्तर्गतं लोहाघाट क्षेत्रे भूस्खलनस्य काल्पनिक स्थिति निर्माय राहत् तथा बचाव दलस्य शीघ्रक्रियायाः परीक्षणं कृतम्। तथा टनकपुर पिथौरागढ़ राष्ट्रीय राजमार्ग ०९ अन्तर्गत स्वाला क्षेत्रे मार्ग अवरोधस्य स्थितिं प्रदर्श्य यातायात प्रबन्धनस्य मार्ग पुनर्स्थापनस्य च अभ्यासः कृतः।

बाराकोट क्षेत्रस्य समीपे वनप्रदेशे व्याघ्र आक्रमणस्य काल्पनिक सूचना प्राप्तायां पुलिस तथा वन विभागयोः संयुक्त दलं स्थलम् आगत्य बचाव अभियानं संचालितवान्। अस्मिन् काले स्वास्थ्य विभागस्य दलम् अपि एम्बुलेंस सहितं आगत्य घायलेभ्यः प्राथमिक उपचारस्य प्रक्रिया प्रदर्शितवती।

टनकपुरस्य थवालखेड़ा क्षेत्रे आकस्मिक बाढा स्थिति निर्माय स्थानीय जनान् सचेतयितुं सुरक्षित स्थानानि प्रति प्रेषयितुं च अभ्यासः कृतः। तथा वनप्रदेशेषु वनाग्नि नियंत्रणार्थं सम्बन्धित विभागैः समन्वित क्रियायाः अपि पूर्वाभ्यासः कृतः।

अनेन मॉक ड्रिल कार्यक्रमेन विभिन्न विभागानां मध्ये समन्वयः शीघ्र प्रतिक्रिया आपदाप्रतिरोध क्षमता च परीक्षिताः। अधिकारिणः एतत् आपदाप्रबन्धनस्य दिशि महत्वपूर्णं कदम इति उक्तवन्तः तथा भविष्ये अपि एतादृशाः अभ्यासाः नियमितरूपेण करणीयाः इति बलं दत्तवन्तः।

हिन्दुस्थान समाचार