क्रिकेटर एस.श्रीसंतद्वारा कैंचीधाम इत्यत्र कृतं बाबानीबकरौरी इत्यस्य दर्शनम्
नैनीताल, 18 मार्चमासः (हि.स.)। भारतीय क्रिकेटदलस्य पूर्वसदस्यः तथा तीव्रगोलन्दाजः एस. श्रीसन्तः बुधवासरे कैंचीधामं गत्वा बाबा नीबकरौरी महाभागस्य दर्शनं कृतवान्। अस्मिन् अवसरः सः हनुमानचालीसाया: पाठं अपि कृतवान्। परिवारसहितः अत्र आगतः श्रीसन्तः आश्
कैंची धाम में मंदिर के प्रबंधक प्रदीप साह के साथ पूर्व क्रिकेटर श्रीसंत।


नैनीताल, 18 मार्चमासः (हि.स.)। भारतीय क्रिकेटदलस्य पूर्वसदस्यः तथा तीव्रगोलन्दाजः एस. श्रीसन्तः बुधवासरे कैंचीधामं गत्वा बाबा नीबकरौरी महाभागस्य दर्शनं कृतवान्। अस्मिन् अवसरः सः हनुमानचालीसाया: पाठं अपि कृतवान्।

परिवारसहितः अत्र आगतः श्रीसन्तः आश्रमे एकघण्टाधिककालं यावत् स्थित्वा आध्यात्मिकसाधनां अकरोत्। सः अवदत् यत् दीर्घकालात् अत्र आगन्तुम् तस्य इच्छा आसीत्, या अधुना पूर्णा अभवत्।

आश्रमस्य मन्दिरप्रबन्धकः प्रदीप साह महोदयः तस्मै प्रसादं समर्प्य आश्रमस्य व्यवस्थां च विस्तरेण अवगतवान्। श्रीसन्तस्य आगमनवार्ता ज्ञातमात्रेण श्रद्धालूनां प्रशंसकानां च बहुला भीडः समागता, येषां सः स्नेहेन सह संवादं कृतवान्।

अस्मात् पूर्वं हल्द्वानीयां आयोजिते लीजेण्ड् क्रिकेट प्रतियोगितायाम् अपि सः नैनीतालं गन्तुम् इच्छां प्रकटितवान् आसीत्, तथा अत्रत्यां प्राकृतिकसौन्दर्यं क्रीडासुविधाश्च प्रशंसितवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता