Enter your Email Address to subscribe to our newsletters

उरईनगरम्, १९ मार्चमासः (हि.स.)। चैत्र-नवरात्रौ पावनावसरे प्रथम-दिवसे एव जनपदाधिकारी राजेशकुमारपाण्डेयः तथा आरक्षक-अधीक्षकः डॉ.दुर्गेशकुमारः गुरुवासरे जनपदे प्रमुख-शक्तिपीठान् निरीक्ष्य बैरागढस्थितं शक्तिपीठम्, मातृ-रक्तिदन्तिका तथा अक्षरा माता-मन्दिरम् उपगतवन्तः। तत्र व्यवस्थासु स्थलीयनिरीक्षणं कृतम्।
निरीक्षणकाले अधिकारीभिः मन्दिरपरिसरेषु स्वच्छता, प्रकाश-व्यवस्था, पेयजल-व्यवस्था, बैरिकेडिंग, जन-सम्मर्द-नियन्त्रणं, सुरक्षा-व्यवस्था च गहनतया परीक्षिताः। सम्बन्धित-अधिकारिभ्यः निर्देशः दत्तः यत् नवरात्रौ श्रद्धालूनां वृद्धिं दृष्ट्वा सर्वाः व्यवस्थाः क्रियन्ताम्, यथा कथञ्चिदपि असौविध्यं न जायेत। जनपदाधिकारी विशेषतः स्वच्छता, शौचालय-व्यवस्था, प्रकाश-च पेयजल-सतत-उपलब्धता सुनिश्चिताय निर्देशितवान्।
आरक्षक-अधीक्षकः सुरक्षा-व्यवस्था, यातायात-नियन्त्रणं, महिला-श्रद्धालूनां सुरक्षायाः विषये विशेष-सतर्कतां धर्तुं आह्वानं कृतवान्। निरीक्षणकाले जनपदाधिकारी आरक्षक-अधीक्षकश्च विधिवत् मन्दिरेषु पूजार्चनां कृत्वा मातुः चरणयोः शिरः नत्वा जनपदवासिनाम् सुख-समृद्धिशान्तिं च कामितवन्तौ।
प्रशासनेन श्रद्धालूनां सुविधा-सुरक्षायै व्यापक-व्यवस्थाः कृताः, यया नवरात्रि-पर्व श्रद्धा-उल्लास-सुव्यवस्थया संपन्नः क्रियते।
हिन्दुस्थान समाचार / अंशु गुप्ता