एयर इंडिया अथ च एयर इंडिया एक्सप्रेसयानम् अद्य 48 उड्डयनं करिष्यति संचालितम्
नवदिल्ली, 19 मार्चमासः (हि.स)। पश्चिमएशियाक्षेत्रे प्रवर्तमाने सङ्घर्षे विमानसेवाप्रदातृकम्पन्यः सीमितरूपेण चरणबद्धरीत्या च स्वीयविमानसेवाः सञ्चालयन्ति। एयर इंडिया एयर इंडिया एक्सप्रेस तथा इंडिगो इत्येताः कम्पन्यः दुबईनगरं प्रति स्वीयसेवानां पुनर
एयर इंडिया के लोगो का प्रतीकात्मक चित्र


नवदिल्ली, 19 मार्चमासः (हि.स)।

पश्चिमएशियाक्षेत्रे प्रवर्तमाने सङ्घर्षे विमानसेवाप्रदातृकम्पन्यः सीमितरूपेण चरणबद्धरीत्या च स्वीयविमानसेवाः सञ्चालयन्ति। एयर इंडिया एयर इंडिया एक्सप्रेस तथा इंडिगो इत्येताः कम्पन्यः दुबईनगरं प्रति स्वीयसेवानां पुनरारम्भं कर्तुं निर्णयं कृतवन्तः। सह एव एयर इंडिया तथा एयर इंडिया एक्सप्रेस मिलित्वा पश्चिमएशियाक्षेत्रात् आगच्छन्तीनां गच्छन्तीनां च ४८ नियत अनियत च उड्डयनसेवाः सञ्चालयिष्यतः।

टाटा-समूहस्य नेतृत्वेन सञ्चाल्यमाना एयरलाइन कम्पनी गुरुवासरे प्रकाशिते वक्तव्ये उक्तवती यत् एयर इंडिया तथा एयर इंडिया एक्सप्रेस मिलित्वा १९ मार्च दिने पश्चिमएशियं प्रति कुलतः ४८ उड्डयनानि सञ्चालयिष्यतः। एयर इंडिया इत्यस्य आधिकारिकवक्तव्ये उक्तं यत् अद्य ४८ उड्डयनानि सञ्चालयिष्यन्ते। तेषु १६ नियमित उड्डयनानि तथा ३२ विशेष उड्डयनानि सन्ति, येषु दुबईगमनस्य सुविधाऽपि उपलब्धा भविष्यति।

इंडिगो इत्यया ‘एक्स’ माध्यमे उक्तं यत् “दुबई नागरविमानप्राधिकरणात् प्राप्तनवीनसूचनानुसारं दुबईतः दुबईं प्रति च उड्डयनसेवा १८ मार्च दिने १६:०० वादने (डीएक्सबी स्थानीयसमयानुसारम्) पुनरारब्धा अस्ति।”

अकासा एयर इत्यया उक्तं यत् सुरक्षा-मूल्याङ्कनं वर्तमानपरिस्थितेः समीक्षा च कृत्वा सा कम्पन्या क्षेत्रे चयनिताः सेवाः शनैः शनैः पुनः प्रारभ्यन्ते।

अतिरिक्ततया एयर इंडिया इत्यया ‘एक्स’ माध्यमे सूचितं यत् दिल्ली तथा उत्तरभारतस्य केषुचित् भागेषु दिवाकाले निरन्तरवृष्टिः तीव्रवातः च सम्भाव्यते। अस्य प्रभावः दिल्ली तथा अन्यनगराणां प्रति आगच्छन्तीनां गच्छन्तीनां च उड्डयनसेवाः उपरि भवितुम् अर्हति।

अतः यात्रिभ्यः अनुरोधः क्रियते यत् विमानस्थानकं प्रति प्रस्थानात् पूर्वं स्वीयोड्डयनस्य स्थितिं अवश्यं परीक्षन्ताम् तथा सम्भाव्ययातायातविलम्बं दृष्ट्वा यात्रायाः कृते अधिकं समयं स्वीकुर्वन्तु। विमानस्थानके अस्माकं दलानि सर्वदा सहायार्थं सज्जानि सन्ति। भवतां धैर्याय अवबोधनाय च धन्यवादाः।

---------------

हिन्दुस्थान समाचार