Enter your Email Address to subscribe to our newsletters


अयोध्या (उत्तरप्रदेशः), १९ मार्चमासः (हि.स.)। हिन्दूनववर्षस्य (वर्षप्रतिपदायाः) चैत्रनवरात्रेः च प्रथमे दिवसे गुरुवासरे राष्ट्रपतिः द्रौपदी मुर्मुः रामनगरीम् अयोध्यां प्राप्स्यति। अत्र श्रीरामजन्मभूममिन्दिरपरिसरे सा श्रीरामयन्त्रस्य स्थापनां करिष्यति। सहैव वैदिकानुष्ठानेषु मुख्यअतिथिरूपेण भागं ग्रहीष्यति। एषा यात्रा राममन्दिरस्य इतिहासे एकं महत्त्वपूर्णम् अध्यायं योजयिष्यति, यतः रामयन्त्रस्य स्थापना मन्दिरस्य द्वितीयतले भविष्यति, यत् आध्यात्मिक-वास्तुशास्त्रीयदृष्ट्या अत्यन्तं पवित्रं मन्यते।
राष्ट्रपतिः द्रौपदी मुर्मुः प्रातः प्रायः ११:१० वादने अयोध्या-विमानपत्तने अवतरिष्यति। अत्र उत्तरप्रदेशस्य राज्यपाला आनंदीबेनपटेलः मुख्यमन्त्री योगी आदित्यनाथश्च तस्याः स्वागताय उपस्थिताः भविष्यन्ति। महत्याः सुरक्षाव्यवस्थायाः मध्ये राष्ट्रपतिः मार्गमार्गेण श्रीराममन्दिरपरिसरं प्रति प्रस्थानं करिष्यति। विमानपत्तनतः मन्दिरपर्यन्तं यात्रायाः समये २० स्थानेषु सांस्कृतिक-स्वागतकार्यक्रमाः आयोजयिष्यन्ते। एते मञ्चाः रामभक्ति-लोकनृत्य-भजनकीर्तन-रामायणप्रेरितप्रस्तुतिभिः सज्जिताः भविष्यन्ति, ये सम्पूर्णं मार्गम् आध्यात्मिक-उत्साहेन पूरयिष्यन्ति। श्रीराममन्दिरं प्राप्य राष्ट्रपतिः मन्दिरस्य द्वितीयतले स्थिते गर्भगृहे श्रीरामयन्त्रस्य विधिवत् स्थापनां पूजनं च करिष्यति। तत्रैव राममन्दिरपरिसरे राष्ट्रपतेः मुख्यमन्त्रिणः योगी आदित्यनाथस्य च सम्बोधनकार्यक्रमः अपि प्रस्तावितः अस्ति।
एतत् यन्त्रं वैदिकपरम्परानुसारं मन्दिरस्य ऊर्जां दिव्यतां च अधिकं सुदृढं कर्तुं स्थाप्यते। कार्यक्रमस्य समये मन्दिरनिर्माणे योगदानं दत्तवन्तः श्रमिकाः कार्मिकार्श्च अपि सम्मानिताः भविष्यन्ति। राष्ट्रपतिः प्रायः ३ तः ४ होरापर्यन्तं मन्दिरपरिसरे स्थास्यति।
अस्मिन् अवसरे श्रीरामजन्मभूमि-तीर्थक्षेत्र-ट्रस्ट-पक्षतः शताधिकाः सन्तः, विशिष्टाः अतिथयः सहस्राणि भक्ताश्च आमन्त्रिताः सन्ति। अयोध्या पूर्णतया 'राममयी' जाता अस्ति, यत्र पुष्पाणां सज्जा, दीपानां प्रकाशः, भक्तिभजनानां ध्वनिः च वातावरणं दिव्यं अकरोत्। एषा यात्रा न केवलं धार्मिकमहत्त्वस्य अस्ति, अपितु राष्ट्रपतेः रूपेण द्रौपदी मुर्मु-महोदयायाः रामनगर्यां द्वितीयं प्रमुखं आगमनं भवतः कारणात् देशे उत्साहमयं वातावरणम् अस्ति।
हिन्दुस्थान समाचार