Enter your Email Address to subscribe to our newsletters


अयोध्या, 19 मार्चमासः (हि.स.)।
नवसंवत्सरस्य, विक्रमसंवत् २०८३ चैत्रशुक्लप्रतिपदाया अवसरस्य निमित्तम् गुरुवासरे सरयू-तटे उदयमानाय सूर्याय अर्घ्यं दत्तम्।
अस्मिन् अवसरे राष्ट्रियस्वयंसेवकसंघस्य अवध-प्रान्तस्य प्रान्तप्रचारकः कौशलः, नगरनिगमस्य महापौरः गिरीशपतित्रिपाठी, सरयू-आरती-संयोजकः महन्तः शशिकान्तदासः च विशेषरूपेण उपस्थिताः आसन्।
नगरनिगम-महापौरः गिरीशपतित्रिपाठी अवदत् यत् अद्य नवसंवत्सरस्य अवसरि अयोध्या-महानगरवासिनां सुख-समृद्ध्यर्थं मङ्गलकामना कृता। अयं पावनदिवसः सर्वेषां जीवनिषु नूतन-ऊर्जा, उत्साहः तथा सकारात्मकता सञ्चारयतु, इति प्रभोः श्रीसीतारामस्य समीपे प्रार्थना कृता।
सर्वेभ्यः हिन्दू-नववर्षस्य, विक्रमसंवत् २०८३ इत्यस्य हार्दिकाः शुभाशयाः अभिनन्दनानि च।
हिन्दुस्थान समाचार