(मुख्यवार्ता) राष्ट्रपतिः श्रीराम जन्मभूमि मंदिरे स्थापितं 'श्रीराम यंत्र', विमानस्थानकतः मंदिरं यावत् दिखितं सांस्कृतिकवातावरणम्
विमानस्थानके राज्यपालः मुख्यमन्त्री च राष्ट्रपतिम् स्वागतं कृतवन्तौ। महापौरः प्रतीकात्मक-सम्मानरूपेण राष्ट्रपतये नगरस्य कुञ्जिकां समर्पितवान्। अयोध्या, 19 मार्चमासः (हि.स.)। चैत्र-नवरात्रस्य प्रथमदिने गुरुवासरे भारतस्य राष्ट्रपतिः द्रौपदी-मुर्
राष्ट्रपति


राष्ट्पति


विमानस्थानके राज्यपालः मुख्यमन्त्री च राष्ट्रपतिम् स्वागतं कृतवन्तौ।

महापौरः प्रतीकात्मक-सम्मानरूपेण राष्ट्रपतये नगरस्य कुञ्जिकां समर्पितवान्।

अयोध्या, 19 मार्चमासः (हि.स.)।

चैत्र-नवरात्रस्य प्रथमदिने गुरुवासरे भारतस्य राष्ट्रपतिः द्रौपदी-मुर्मु अयोध्यायां स्थिते श्रीराम-जन्मभूमि-मन्दिरे सनातन-नवसंवत्सरस्य अवसरं प्रति “श्रीराम-यन्त्रस्य” स्थापना अकुर्वत्। एतत् यन्त्रं मन्दिरस्य द्वितीय-तले गर्भगृहे अभिजित्-मुहूर्ते वैदिक-आचार्यैः मन्त्र-उच्चारणेन विधिपूर्वकं पूजां कृत्वा स्थापितम्। राष्ट्रपतेः मुर्मोः अयोध्यावासिभिः विमानस्थानकात् मन्दिरपर्यन्तं भव्यतया स्वागतं कृतम्।

राष्ट्रपतिः मुर्मु अयोध्यां प्राप्ता सति महर्षि-वाल्मीकि-अन्तर्राष्ट्रीय-विमानस्थानके राज्यपालः आनन्दीबेन-पटेल तथा मुख्यमन्त्री योगी-आदित्यनाथः पुष्पगुच्छेन तस्याः स्वागतं कृतवन्तौ। अस्मिन् समये उपमुख्यमन्त्री केशव-प्रसाद-मौर्यः ब्रजेश-पाठकः च अपि उपस्थितौ आस्ताम्। महापौरः महन्त-गिरीश-पति-त्रिपाठी राष्ट्रपतिम् अभिवाद्य “नगरस्य कुञ्जिका” इति प्रतीकात्मकं सर्वोच्चं सम्मानं तस्मै अर्पितवान्। राष्ट्रपतिः द्रौपदी-मुर्मु द्वितीयवारं अयोध्यां आगता।

ततः विमानस्थानकात् श्रीराम-जन्मभूमि-मन्दिरं प्रति राष्ट्रपतेः वाहन-समूहः प्रस्थितः। मार्गे सर्वत्र उत्सवस्य दृश्यं दृष्टम्। मार्गस्य उभयोः पार्श्वयोः प्रायः विंशति-सांस्कृतिक-मञ्चाः सज्जीकृताः आसन्, यत्र प्रायः द्विशताधिक-पञ्चाशत् कलाकाराः रामायण-आधारित-प्रस्तुतिभिः वातावरणं भक्तिमयं अकुर्वन्। भारतीय-वेषभूषायां कलाकाराः स्वागत-गीतानि, भजनानि, अवधी-भोजपुरी-लोक-गीत-नृत्यानि च प्रस्तुतवन्तः।

अयोध्यावासिनः मार्गस्य पार्श्वे स्थित्वा पुष्प-वृष्ट्या तथा जयघोषैः राष्ट्रपतिं हार्दिकतया स्वागतवन्तः। राष्ट्रपतिः अपि तान् अभिवादितवती। कार्यक्रमस्य भव्यतां वर्धयितुं रामलीला-अंशाः, झांक्यः, ढोल-नगाड़-वादनम्, शंख-नादः, वेद-पाठः, भजन-कीर्तनादयः पारम्परिक-कार्यक्रमाः अपि आयोजिताः, येन अयोध्यायाः समृद्धा धार्मिक-सांस्कृतिक-परम्परा प्रदर्शिता।

मन्दिरं प्राप्त्य राष्ट्रपतिः प्रथमं श्रीरामललस्य दर्शनं कृत्वा पूजां आरतीं च अकरोत्। अनन्तरं “श्रीराम-यन्त्रस्य” स्थापना-विधानं सम्पन्नम्। सम्यक्-विधिना यन्त्र-स्थापनया श्रीराम-जन्मभूमि-मन्दिर-निर्माणस्य इतिहासे नूतनं अध्यायः लिखितः। यन्त्र-स्थापनानन्तरं सम्पूर्णे मन्दिर-परिसरे श्रीराम-जयघोषः निनादितः। राष्ट्रपतिः मन्दिर-परिसरं परिभ्रम्य तत्र भित्तिषु उत्कीर्णान् चित्रान् अपि निरीक्षितवती।

यन्त्र-स्थापन-समये राज्यपालः आनन्दीबेन-पटेल, मुख्यमन्त्री योगी-आदित्यनाथः, केरलात् आगता माता अमृतानन्दमयी, श्रीराम-जन्मभूमि-तीर्थ-क्षेत्र-ट्रस्टस्य महासचिवः चम्पत-रायः, कोषाध्यक्षः गोविन्द-देव-गिरिः, ट्रस्टी अनिल-मिश्रः, सदस्यः गोपालः तथा साधवः सन्तः च, देश-विदेशेभ्यः आगताः सप्तसहस्राधिकाः गणमान्याः उपस्थिताः आसन्।

एतत् “श्रीराम-यन्त्रं” द्विवर्षपूर्वं जगद्गुरुणा शङ्कराचार्येण विजयेंद्र-सरस्वती-महाराजेन शोभायात्रया अयोध्यां प्रेषितम् आसीत्। वैदिक-गणित-ज्यामितीय-आकृतिषु आधारितं एतत् यन्त्रं देवतानां निवास-स्थानम् इति मन्यते, यत् सकारात्मक-ऊर्जां आकर्षयितुं समर्थम् अस्ति। दक्षिण-भारतस्य, काश्याः, अयोध्यायाः च आचार्यैः अस्य यन्त्रस्य कृते नव-दिवसीयः वैदिक-अनुष्ठानः पूर्वमेव आरब्धः आसीत्।

हिन्दुस्थान समाचार