Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 19 मार्चमासः (हि.स.)।
भारतीय जनतादलस्य (भाजपा) असमविधानसभानिर्वाचनाय प्रथमां सूचीं निर्गतवती, यस्याम् ८८ अभ्यर्थिनः घोषिताः। अस्यां सूचौ मुख्यमन्त्री हिमंत बिस्व सरमा अपि समाविष्टः अस्ति।
भाजपाया: अनुसारं केन्द्रीयनिर्वाचनसमितेः उपवेशनं राष्ट्रियाध्यक्षस्य नितिन नवीन अध्यक्षतायां बुधवासरे सम्पन्ना। अस्मिन् उपवेशने प्रधानमन्त्री नरेन्द्र मोदी, रक्षामन्त्री राजनाथ सिंह, गृहमन्त्री अमित शाह तथा केन्द्रीयनिर्वाचनसमितेः अन्ये सर्वे सदस्याः उपस्थिताः आसन्।
निर्वाचनसमित्या असमराज्ये भविष्यन्तः विधानसभानिर्वाचनाः दृष्ट्वा ८८ अभ्यर्थिनां नामानि अनुमोदितानि। अस्मिन् सूचीपत्त्रे मुख्यमन्त्री हिमंतबिस्वसरमा सहिताः अनेकाः प्रमुखनेतारः सन्ति। पूर्वसांसदौ रामेश्वरतेली, पल्लबलोचनदासः तथा राजदीपरायः अपि अभ्यर्थित्वेन निर्दिष्टाः।
दलेन अनुभवस्य विजयस्य च समीकरणं दृष्ट्वा एषा सूची निर्मिता। अस्यां सूचौ षट् महिलाः अपि अभ्यर्थिन्यः सन्ति। मुख्यमन्त्रिणे जालुकबारी निर्वाचनक्षेत्रात् नामनिर्देशनं दत्तम्।
उल्लेखनीयम् अस्ति यत् असम राज्यस्य विधानसभायां कुलम् १२६ आसनानि सन्ति।
-----------
हिन्दुस्थान समाचार