Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 19 मार्चमासः (हि.स.)।
भारतीयजनतापक्षेण गुरुवासरे गोवा सहितेषु चतुर्षु राज्येषु पञ्च विधानसभाक्षेत्रेषु भविष्यत्सु उपनिर्वाचनेषु स्वीयप्रत्याशिनां घोषणा कृता।
कर्नाटक गोवा नागालैण्ड तथा त्रिपुरा राज्येषु उपनिर्वाचनार्थं ९ अप्रैल दिने मतदानं भविष्यति।
नागालैण्डराज्यस्य २८-कोरिडाङ्ग विधानसभाक्षेत्रात् दाओचियर आई इम्चेन इत्ययं प्रत्याशी नियुक्तः अस्ति, तथा त्रिपुराराज्यस्य ५६-धर्मनगर क्षेत्रात् जहार चक्रवर्ती निर्वाचनं करिष्यति।
पूर्वविधायकयोः नागालैण्डे पूर्वमन्त्री इम्कोंग एल इम्चेन तथा त्रिपुरायां वरिष्ठनेता पूर्वमन्त्री बिस्वा बन्धु सेन इत्येतयोः निधनात् एते क्षेत्रे रिक्ते अभवताम्।
घोषणानुसारं गोवाराज्यस्य पोंडा क्षेत्रात् रितेश रवि नाइक, नागालैण्डस्य कोरिडाङ्ग क्षेत्रात् दाओचियर आई इम्चेन तथा त्रिपुरायाः धर्मनगर क्षेत्रात् जहार चक्रवर्ती प्रत्याशिनः कृताः।
कर्नाटक राज्यात् वीरभद्रय्या चारन्तिमठ बागलकोट क्षेत्रात् तथा श्रीनिवास टी दासकरियप्पा दावणगेरे दक्षिण क्षेत्रात् निर्वाचनं करिष्यतः।
सर्वेषां क्षेत्राणां मतगणना ४ मई दिने भविष्यति तथा सम्पूर्णा निर्वाचनप्रक्रिया ६ मई पर्यन्तं सम्पन्ना भविष्यति।
---------------
हिन्दुस्थान समाचार