Enter your Email Address to subscribe to our newsletters

रायपुरम् 19 मार्चमासः (हि.स.)।
मुख्यमन्त्री विष्णुदेव सायोऽद्य गुरुवासरे स्वगृहजनपदे जशपुरे भ्रमणं करिष्यति। सः मध्यान्हे १२ वादने मुख्यमन्त्री-निवासात् प्रस्थित्य रायपुर-हेलिपैडतः जशपुरं प्रति उड्डयनं करिष्यति।
जशपुरे मुख्यमन्त्री सरहुल-पूजायां सहभागं करिष्यति तथा च विविधेषु स्थानीय-कार्यक्रमेषु भागं गृह्णीयात्। निर्धारित-कार्यक्रमानुसारं सः सायं ४:३० वादने पुनः रायपुरं प्रतिनिवर्तिष्यति।
हिन्दुस्थान समाचार