भोपालस्य होम्योपैथी वैलनेसकेंद्रम् अद्य लप्स्यते आयुष एवम्एकीकृत चिकित्सा नवाचार सम्मानः-2026
भोपालम्, 19 मार्चमासः (हि.स.)। मध्यप्रदेशस्य भोपाल-नगरे आयुष-परिसरे स्थितस्य शासकीय-होम्योपैथिक-चिकित्सा-महाविद्यालय-चिकित्सालयस्य होम्योपैथी-वेलनेस-केन्द्राय अद्य गुरुवासरे देहरादून-नगरे आयोजिते समारोहे उत्तराखण्ड-सरकारस्य राज्य-सशक्तिकरण-परिवर्
होम्योपैथी वैलनेस सेंटर का शुभारंभ करते हुए मंत्री इंदर सिंह परमार (फाइल फोटो)


भोपालम्, 19 मार्चमासः (हि.स.)।

मध्यप्रदेशस्य भोपाल-नगरे आयुष-परिसरे स्थितस्य शासकीय-होम्योपैथिक-चिकित्सा-महाविद्यालय-चिकित्सालयस्य होम्योपैथी-वेलनेस-केन्द्राय अद्य गुरुवासरे देहरादून-नगरे आयोजिते समारोहे उत्तराखण्ड-सरकारस्य राज्य-सशक्तिकरण-परिवर्तन-संस्थानम् आयोगेन “आयुष-एकीकृत-चिकित्सा-नवाचार-सम्मानः–२०२६” प्रदास्यते।

होम्योपैथी-चिकित्सा-महाविद्यालयस्य प्रधानाचार्यः डॉ. एस.के. मिश्रः अवदत् यत् अयं सम्मानः देशव्यापिनां नवोन्मेषाणां प्रोत्साहनार्थं दीयते। एतत् सम्मानं प्राप्तवान् भोपालस्थितः शासकीय-होम्योपैथी-महाविद्यालयस्य होम्योपैथी-वेलनेस-केन्द्रः देशे एकमेवः शासकीय-होम्योपैथी-संस्थानः अस्ति, यस्मै आयुष-एकीकृत-चिकित्सा-वर्गे एषः पुरस्कारः प्रदीयते।

तेन उक्तं यत् भोपालस्थितस्य शासकीय-होम्योपैथिक-चिकित्सा-महाविद्यालय-चिकित्सालयस्य होम्योपैथी-वेलनेस-केन्द्रः भारत-सरकारस्य केन्द्रीय-योग-प्राकृतिक-अनुसन्धान-परिषदः सहयोगेन संयुक्तरूपेण संचाल्यते। वर्षे २०१६ आरभ्य सञ्चालितः अयं केन्द्रः प्रदेशस्य आयुष-मन्त्री इन्द्रसिंहपरमारस्य प्रयत्नेन वर्षे २०२४ मध्ये नूतनभवने स्थापितः।

प्रधानाचार्यः डॉ. मिश्रः अवदत् यत् अस्मिन् केन्द्रे होम्योपैथी-प्राकृतिक-चिकित्सा-योगादीनां माध्यमेन रोगिभ्यः तथा स्वस्थजनानां उपचारः सेवाश्च प्रदीयन्ते। देशे एतादृशः अयं केन्द्रः एकमेवः अस्ति, यत्र अद्यपर्यन्तं सवा-लक्षाधिकेभ्यः लाभार्थिभ्यः सेवाः प्रदत्ताः सन्ति। अस्मिन् केन्द्रे प्रदेशस्य तथा भारत-सरकारस्य आयुष-मन्त्रालयस्य च पक्षतः विशेषज्ञाः नियुक्ताः सन्ति, येन विविध-रोगाणां निदानं कृत्वा उपचारः प्रदीयते।

तेन अपि उक्तं यत् महाविद्यालय-परिसरे भारत-सरकारस्य सहयोगेन विशेषज्ञाणां सतत-प्रयत्नेन अस्थि-सन्धि-समस्यासु, पक्षाघाते, स्थूलता (मोटापा), हाइपोथायरायडिज्म्, मधुमेहः (डायबिटीज) तथा उच्च-रक्तचापः (हाइपरटेंशन) इत्यादिषु जीवनशैली-सम्बद्ध-रोगेषु अयं केन्द्रः अत्यन्तं उपयोगी सिद्धः अभवत्।

डॉ. मिश्रः अवदत् यत् भारत-सरकारस्य अन्याभिः अनुसन्धान-परिषद्भिः अपि अत्र विस्तृत-अनुसन्धानकार्याणि क्रियन्ते। वर्तमानकाले पक्षाघातेन तथा थायरायड्-रोगेण पीडितानां रोगिणां पंजीकरण-संख्या अधिका अस्ति, ये अत्र आगत्य लाभं प्राप्नुवन्ति।

तेन उक्तं यत् पूर्वं “राज्य-नीति-आयोगः” इति नाम्ना प्रसिद्धः उत्तराखण्डस्य SETU आयोगः देशे नवीन-प्रयोगाणां तथा विविध-नवोन्मेषाणां प्रोत्साहने अग्रणी-संस्थानरूपेण स्थापितः अस्ति।

केन्द्रस्य नोडल-अधिकारी डॉ. जूहीगुप्ता अवदत् यत् अयं केन्द्रः स्वभावतः होम्योपैथी-प्राकृतिक-चिकित्सयोः अद्भुतः संगमः अस्ति। केन्द्रस्य विषये अधिक-जानकारी प्राप्तुं दूरभाष-संख्या ०७५५-२९९२९७० इति सम्पर्कः कर्तुं शक्यते।

इति।

---------------

हिन्दुस्थान समाचार