रक्षा-राज्यमन्त्रिणा युवकस्य जीवनं रक्षितवत: आरपीएफ-पक्षस्य सम्मानं कृतम्
राँचीनगरम्, १९ मार्चमासः (हि.स.)। रक्षा-राज्यमन्त्री संजय-सेठः राँची-रेलस्थानके गते १४ मार्चमासे २०२६ तमे २५,०००-उच्च-वोल्ट-तारैः सह संलग्नत्वेन आत्महत्यायाः प्रयासं कृतवन्तं युवकं रक्षितवन्तं आरपीएफ-पक्षस्य उपनिरीक्षकं सूरज-पाण्डेयम् तथा तस्य दलस्
राज्य रक्षा मंत्री संजय सेठ के साथ सम्मानित जवानों की टीम


राँचीनगरम्, १९ मार्चमासः (हि.स.)। रक्षा-राज्यमन्त्री संजय-सेठः राँची-रेलस्थानके गते १४ मार्चमासे २०२६ तमे २५,०००-उच्च-वोल्ट-तारैः सह संलग्नत्वेन आत्महत्यायाः प्रयासं कृतवन्तं युवकं रक्षितवन्तं आरपीएफ-पक्षस्य उपनिरीक्षकं सूरज-पाण्डेयम् तथा तस्य दलस्य सदस्यांश्च सम्मानितवान्।

उल्लेखनीयं यत् आत्महत्यायाः प्रयासे सः युवकः २५,०००-उच्च-वोल्ट-तारैः संलग्नः सन् दग्धः अभवत्। तस्य जीवन-रक्षणाय आरपीएफ-दलेन अद्भुतं साहसं प्रदर्शितम्। अस्मात् कारणात् उपनिरीक्षकः सूरज-पाण्डेयः, प्रधान-आरक्षी रबि-शंकर-प्रधानः, एस.के.-झा, कुमार-रञ्जीत:, अभय-कुमारः इत्येतेषां रक्षा-राज्यमन्त्रिणा स्वकार्यालये प्रशस्ति-पत्रेण, प्रावारेण, स्मारक-चिह्नेन च सम्मानं कृतम्।

अस्मिन् अवसरे संजय-सेठः अवदत् यत् युवकस्य जीवन-रक्षणार्थं आरपीएफ-सैनिका: प्रदर्शिता मानवता वीरता च अतिशयेन प्रशंसनीया अस्ति। एतत् केवलं एकस्य व्यक्तेः जीवन-रक्षणं न, अपितु आरपीएफ-दलस्य तां छविं दर्शयति या प्रशिक्षण-काले तेभ्य: प्रदत्ता भवति। सः अवदत् यत् एकतया वयं महतीम् अपि समस्यां शीघ्रं समाधानं कर्तुं शक्नुमः। एतादृशस्य दलस्य सम्माननं कृत्वा तेषां उत्साहवर्धनं कर्तुं स्वयम् अपि गौरवान्वितः अस्मि इति सः उक्तवान्। एते कर्मयोगिनः युवानः समाजस्य सर्वेषां वर्गाणां कृते प्रेरणास्रोतांसि सन्ति।

समारोहे चित्रांश-विचार-मञ्चस्य प्रबुद्धजनाः अपि आरपीएफ-दलस्य सम्मानं कृतवन्तः। अस्मिन् कार्यक्रमे राजीव-सहायः, अमरेन्द्र-श्रीवास्तवः, एस.डी.-सिंहः, सुबेश-पाण्डेयः, साकेत-बिहारी, प्रखर-जयपुरियारः, अशोक-प्रसादः, प्रमोद-सिन्हा च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता