जनपद-चिकित्सालयेषु आईसीयू-स्थापनात् जनैः सौविध्यं प्राप्तं भविष्यति : अभियान-निदेशक:
राँचीनगरम्, १९ मार्चमासः (हि.स.)।राष्ट्रीय-स्वास्थ्य-अभियानं, झारखण्डस्य अभियान-निदेशकः शशि-प्रकाश-झा गुरुवासरे आर.सी.एच.सभागरे समीक्षा-सभायां आयोज्य अधिकारिण: प्रति अनेके निर्देशाः प्रदत्तवन्तः। अस्याभ्यन्तरे राज्ये सर्वत्र सर्वकारी-चिकित्सालयेषु
कार्यक्रम में शामिल अभियान निदेशक शशि प्रकाश झा सहित अन्य


राँचीनगरम्, १९ मार्चमासः (हि.स.)।राष्ट्रीय-स्वास्थ्य-अभियानं, झारखण्डस्य अभियान-निदेशकः शशि-प्रकाश-झा गुरुवासरे आर.सी.एच.सभागरे समीक्षा-सभायां आयोज्य अधिकारिण: प्रति अनेके निर्देशाः प्रदत्तवन्तः। अस्याभ्यन्तरे राज्ये सर्वत्र सर्वकारी-चिकित्सालयेषु इन्सेंटिव-केयर-सर्विस (आईसीयू) प्रभावपूर्णतया प्रवर्तयितुं सिद्ध मार्गदर्शिकायाः पालनम् एवं निरीक्षणविषये चर्चा कृता।

निदेशकस्य अनुसारं, जनपद-चिकित्सालयेषु आईसीयू-स्थापनात् राज्यस्य सर्वे जनाः स्व-जनपदे एव स्वास्थ्य-सुविधाः लाभं प्राप्स्यन्ति। अपरत्र, अभियान-निदेशकः २३ मार्चमासे प्रोजेक्ट-भवन-सभागरे आयोज्य राज्य-स्तरीय कार्यक्रमस्य तयारी विषये एन.एच.एम्-नोडल् पदाधिकारिभ्यः तथा परामर्शिभ्यः पृथक् पृथक् दायित्वानि निर्दिष्टवन्तः।

सहकार्ये स्टेट-रिव्यू-अभियान-सम्बद्धान् नोडल्-पदाधिकारीन् अपि स्व-जनपदं भ्रमणं कृत्वा रिपोर्ट् प्रस्तोतुम् आज्ञापिताः। समीक्षा-सभायाम् प्रमुख-स्वास्थ्य-सेवायाः निदेशकः डॉ.सिद्धार्थ-सान्यालः अपि अधिकारिण: प्रति बहवः निर्देशाः प्रदत्तवन्तः।समीक्षा-सभायाः आरम्भे जी.वी.आई. चतुर्थ-वर्गीय कर्मचारी जगन्नाथ-मिर्धायाः आकस्मिक-मृत्युविषये शोक-सन्देशः व्यक्तः।

अस्मिन् अवसरे अभियान-निदेशकः शशि-प्रकाश-झा, प्रमुख-स्वास्थ्य-सेवाः निदेशकः डॉ.सिद्धार्थ-सान्यालः, स्वास्थ्यनिदेशालय:, जी.वी.आई., एन.एच.एम् च स्वास्थ्यविभागस्य अन्ये अधिकारिण: कर्मचारिण: च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता