Enter your Email Address to subscribe to our newsletters

१९ मार्चमासः (हि.स.)। अखिल-भारतीय-मारवाड़ी-महिला-मञ्चस्य वसन्त-मेलापके अन्तिम-दिवसे गुरुवासरे प्रातःकालात् एव मेलापक-विशेषा चञ्चलता दृश्यते स्म। मेलापके महिलाभिः उत्साहेन बहु क्रय-विक्रयः कृतः। हस्तनिर्मित-वस्तूनां जनैः बहु प्रशंसा कृता। हस्तनिर्मितं बादाम-शरबतं, चॉकलेट-पॉप्स्, पेस्ट्री इत्यादीनि बालकानां महिलानां च अतीव प्रियाणि अभवन्। प्रातःकालात् एव जनाः बहु क्रय-विक्रयं कृत्वा स्वादिष्ट-व्यञ्जनानां आस्वादनं च अकरोत्। सायंकाले मेलापकस्य समापनावसरे मुख्यातिथिः रिंकू-बैनर्जी उपस्थित: आसीत्।
अस्मिन् अवसरे शाखा-अध्यक्षा मधु-सराफ: मुख्यातिथेः स्वागतं कृतवती।मेलापके संयोजिका असु-नेवटिया मेलापकस्य सफलताविषये सूचनां दत्तवती। समापनावसरे चतस्रः शिविर-धारिण्यः महिलाः सम्मानिताः। तासु— ‘बेस्ट-एक्सक्लूसिव-आइटम्’ इति श्रेण्यां सुजाता-कयाल:, ‘बेस्ट-सेल्सवुमेनशिप्’ इति प्रीति-जैन, ‘बेस्ट-डिस्प्ले’ इति पूजा-तोदी तथा ‘बेस्ट-हैण्डीक्राफ्ट्’ इति कालिका-जैन सम्मानिताः।
कार्यक्रमस्य सञ्चालनं सीमा-टॉटिया कृतवती। कार्यक्रमस्य सफलतायां पूर्व-प्रदेश-अध्यक्षा रूपा-अग्रवाल, अनुशुया-नेवटिया, बीना-मोदी, मंजू-केडिया, मंजु-लोहिया, उर्मिला-पाड़िया, प्रीती-बंका, रीना-सुरेखा, सीमा-टांटिया, अर्चना-अग्रवाल, कुसुम-पटवारी, ललिता-नारसरिया, सुनीता-सरावगी इत्यादीनां सराहनीया भूमिका आसीत्।
हिन्दुस्थान समाचार / अंशु गुप्ता