उज्जैनम् - मुख्यमंत्रिणो डॉ. यादवस्य मुख्यातिथ्ये तरणतालस्य भविष्यति लोकार्पणम्
उज्जैनम्, 19 मार्चमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्रिणः डॉ. मोहनयादवस्य मुख्यातिथ्ये अद्य गुरुवासरे सायं ०६ वादने उज्जैन-नगरे देवासमार्गे ८.३० कोटिरूप्यकव्ययेन निर्मितस्य तरणतलस्य (स्विमिंग-पूल) लोकार्पणं क्रियते। उल्लेखनीयम् अस्ति यत् नगरन
तरणताल


उज्जैनम्, 19 मार्चमासः (हि.स.)।

मध्यप्रदेशस्य मुख्यमन्त्रिणः डॉ. मोहनयादवस्य मुख्यातिथ्ये अद्य गुरुवासरे सायं ०६ वादने उज्जैन-नगरे देवासमार्गे ८.३० कोटिरूप्यकव्ययेन निर्मितस्य तरणतलस्य (स्विमिंग-पूल) लोकार्पणं क्रियते।

उल्लेखनीयम् अस्ति यत् नगरनिगमेन उक्तः तरणतलः पुरातनतरणतलस्य स्थाने नव्यरूपेण निर्मितः अस्ति। अस्मिन् अन्तरराष्ट्रीयस्तरस्य मानकानां विशेषतः ध्यानं कृतम् अस्ति। तरणतलस्य समग्रपरिमाणं २५×५० मीटर अस्ति तथा अस्य गाम्भीर्यम् ४.५ पादात् ६.१५ पादपर्यन्तं निर्धारितम् अस्ति।

अस्य सह बालकानां कृते वार्म-अप-पूल अपि निर्मितः अस्ति, यस्य गाम्भीर्यम् २.५ पादात् ३ पादपर्यन्तं निर्दिष्टम् अस्ति।

तरणतले दर्शकाणां कृते दर्शकदीर्घा (विजिटर-गैलेरी) निर्मिता अस्ति, यत्र २०० अधिकानां जनानां उपवेशनव्यवस्था भविष्यति। अस्य सह पार्किङ्-स्थलम्, खाद्यकक्षः (फूड-कोर्ट), उपवेशन-आसनानि, उद्यानम्, आधुनिक-निस्सारण-यन्त्र (फिल्टर-प्लान्ट), स्नान-प्रक्षालन-सुविधा (शावर) तथा प्रतीक्षाकक्षः अपि उपलब्धाः भविष्यन्ति।

अस्य तरणतलस्य सञ्चालनं नगरपालिकानिगमेन क्रियते।

---------------

हिन्दुस्थान समाचार