मध्यप्रदेशः - मुख्यमंत्री डॉ. यादवः अद्य उज्जैने करिष्यति नैवेद्य लोकस्य लोकार्पणम्
उज्जैनम्, 19 मार्चमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य गुरुवासरस्य सायंकाले नववर्षप्रतिपदाया अवसरस्य निमित्तम् १८ कोटिरूप्यकव्ययेन उज्जैनविकासप्राधिकरणेन नानाखेड़ा-क्षेत्रे निर्मितस्य नवनिर्मितस्य “नैवेद्यलोकस्य” लोकार्पणं
नैवेद्य लोक


उज्जैनम्, 19 मार्चमासः (हि.स.)।

मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य गुरुवासरस्य सायंकाले नववर्षप्रतिपदाया अवसरस्य निमित्तम् १८ कोटिरूप्यकव्ययेन उज्जैनविकासप्राधिकरणेन नानाखेड़ा-क्षेत्रे निर्मितस्य नवनिर्मितस्य “नैवेद्यलोकस्य” लोकार्पणं करिष्यति।

जनसम्पर्काधिकारी अनिकेतशर्मा उक्तवान् यत् नैवेद्यलोकः उज्जैनविकासप्राधिकरणेन नगरस्य आधुनिक-सुन्दर-चौपाटीरूपेण विकसितः अस्ति। अस्य कुलक्षेत्रफलम् २८००० वर्गपादपरिमितं अस्ति, यत्र सर्वसुविधायुक्तः परिसरः विकसितः अस्ति।

नैवेद्यलोके चौपाटी-उपयोगाय ३४ दुकाने निर्मितानि सन्ति, येषां परिमाणानि क्रमशः १८०, १२०, १००, ९२, ९० तथा ६२ वर्गपादपरिमितानि सन्ति।

तत्रैव विविध-सांस्कृतिक-कार्यक्रमाणां कृते सुसज्जितम् मुक्तमञ्च (ओपन-थियेटर), ध्वनिप्रणाली (साउण्ड-सिस्टम), स्त्री-पुरुष-दिव्याङ्गजनानां कृते नूतन-सेंसर-युक्त-प्रसाधनगृहाणि, सीसीटीवी-कैमरा-सर्वर-कक्षः, आपत्कालीन-विद्युत्-व्यवस्थायै डीजी-सेट्, पार्किङ्-व्यवस्था, भूमिगत-विद्युत्-व्यवस्था, भूमिगत-सीवरेज-प्रणाली तथा उद्यान-रचना (लैण्डस्केपिंग) इत्यादयः सुविधाः अपि विकसिताः सन्ति।

---------------

हिन्दुस्थान समाचार