विक्रमोत्सवः 2026: मध्यप्रदेशेअद्य सर्वेषु जिला मुख्यालयेषु भविष्यति सूर्योपासनाकार्यक्रमः
भोपालम्, 19 मार्चमासः (हि.स.)। मध्यप्रदेशे अद्य गुरुवासरे सृष्ट्याः आरम्भदिवसः, वर्षप्रतिपदा तथा विक्रमसंवत् २०८३ इत्यस्य अवसरस्य निमित्तम् “विक्रमोत्सव-२०२६” अन्तर्गतं सर्वेषु जिल्ला-मुख्यालयेषु प्रातः १० वादने सूर्योपासनाकार्यक्रमाः तथा सांस्कृ
विक्रमोत्सव 2026


भोपालम्, 19 मार्चमासः (हि.स.)।

मध्यप्रदेशे अद्य गुरुवासरे सृष्ट्याः आरम्भदिवसः, वर्षप्रतिपदा तथा विक्रमसंवत् २०८३ इत्यस्य अवसरस्य निमित्तम् “विक्रमोत्सव-२०२६” अन्तर्गतं सर्वेषु जिल्ला-मुख्यालयेषु प्रातः १० वादने सूर्योपासनाकार्यक्रमाः तथा सांस्कृतिककार्यक्रमाः आयोजिताः भविष्यन्ति।

मुख्यमन्त्री डॉ. मोहनयादवः भोपाल-नगरे रविन्द्रभवने मुख्यकार्यक्रमे सहभागं करिष्यति।

जनसम्पर्काधिकारी अनुरागउइके उक्तवान् यत् विक्रमोत्सव-२०२६ अन्तर्गतं प्रातः १० वादने सूर्योपासनाकार्यक्रमः आयोज्यते। अस्मिन् अवसरि “सम्राट् विक्रमादित्य” विषयाधारितस्य नाट्यप्रस्तुतेः मंचनं भविष्यति। संस्कृतिविभागस्य अन्तर्गतं मध्यप्रदेश-नाट्यविद्यालयस्य भोपालस्थितस्य नाट्यकलादलैः प्रदेशस्य विभिन्नेषु जिल्ला-मुख्यालयेषु “सम्राट् विक्रमादित्य” इति नाट्यस्य मंचनं क्रियते।

तेन अपि उक्तं यत् गुडीपड्वा-पावनावसरे विधानसभाध्यक्षः नरेन्द्रसिंहतोमरः ग्वालियर-नगरे उपस्थितः भविष्यति। उपमुख्यमन्त्रिणौ जगदीशदेवडा मन्दसौर-नगरे तथा राजेन्द्रशुक्लः रीवा-जिले कार्यक्रमेषु सहभागं करिष्यतः। विभिन्नेषु जिलेषु उत्तरदायित्वं वहितुं कैबिनेटमन्त्रिणः अपि नियुक्ताः सन्ति—कुँवरविजयशाहः (खण्डवा), कैलाशविजयवर्गीयः (धार), प्रह्लादसिंहपटेलः (नरसिंहपुर), राकेशसिंहः (जबलपुर), करणसिंहवर्मा (सीहोर), रावउदयप्रतापसिंहः (नर्मदापुरम्), सम्पतियाउइके (मण्डला), तुलसीरामसिलावटः (इन्दौर), एदलसिंहकंशाना (मुरैना), निर्मलाभूरिया (झाबुआ), गोविन्दसिंहराजपूतः (सागर), विश्वाससारंगः (हरदा), नारायणसिंहकुशवाहः (निवाड़ी), नागरसिंहचौहानः (आलीराजपुर), प्रद्युम्नसिंहतोमरः (शिवपुरी), राकेशशुक्लः (भिण्ड), चैतन्यकाश्यपः (रतलाम) तथा इन्द्रसिंहपरमारः (शाजापुर) इत्यादयः।

राज्यमन्त्रिपदे कृष्णागौरः (विदिशा), धर्मेन्द्रलोधी (कटनी), दिलीपजायसवालः (अनूपपुर), गौतमटेटवालः (उज्जैन), लखनपटेलः (दमोह), नारायणसिंहपंवारः (राजगढ़), नरेन्द्रशिवाजीपटेलः (रायसेन), प्रतिमाबागरी (सतना), दिलीपहिरवारः (छतरपुर) तथा राधासिंहः (सिंगरौली) स्वस्व-नियुक्तजिलेषु उपस्थिताः भविष्यन्ति।

केन्द्रीयमन्त्री डॉ. वीरेन्द्रकुमारखटीकः टीकमगढ़े तथा केन्द्रीयराज्यमन्त्री दुर्गादासउइके बैतूल-नगरे उपस्थितौ भविष्यतः।

सांसदेषु हिमाद्रीसिंहः (शहडोल), सन्ध्यारायः (दतिया), भारतीपारधी (बालाघाट), गजेन्द्रपटेलः (खरगौन), डॉ. राजेशमिश्रः (सीधी), बंटीविवेकसाहू (छिन्दवाड़ा), सुधीरगुप्तः (नीमच), डॉ. सुमेरसिंहसोलंकी (बड़वानी), वीडीशर्मा (पन्ना), फग्गनसिंहकुलस्ते (डिण्डौरी), गणेशसिंहः (मैहर), महेन्द्रसिंहसोलंकी (देवास), ज्ञानेश्वरपाटिलः (बुरहानपुर), शिवमंगलसिंहतोमरः (श्योपुर) तथा मायासिंहनारोलिया (पांढुर्णा) इत्यादयः उत्सवे भागं गृह्णन्ति।

अतिरिक्तरूपेण विधायकेषु गिरीशगौतमः (मऊगंज), दिनेशरायमुनमुनः (सिवनी), मीनासिंहमाण्डवे (उमरिया), पन्नालालशाक्यः (गुना), बृजेन्द्रप्रतापसिंहः (अशोकनगर) तथा माधवसिंहः (आगरमालवा) अपि स्वस्वक्षेत्रेषु नेतृत्वं करिष्यन्ति।

इति।

---------------

हिन्दुस्थान समाचार